Table of Contents

<<2-3-10 —- 2-3-12>>

2-3-11 प्रतिनिधिप्रतिदाने च यस्मात्

प्रथमावृत्तिः

TBD.

काशिका

मुख्यसदृशः प्रतिनिधिः। दत्तस्य प्रतिनिर्यातनं प्रतिदानम्। यस्मात् प्रतिनिधिर्यतश्च प्रतिदानं तत्र कर्मप्रवचनीययुक्ते पञ्चमी विभक्तिर् भवति। अभिमन्युरर्जुनतः प्रति। प्रद्युम्नो वासुदेवतः प्रति। माषानस्मै तिलेभ्यः प्रति यच्छति। ननु च प्रतिनिधिप्रतिदाने कर्मप्रवचनीययुक्ते, न तु यतः प्रतिनिधिप्रतिदाने? न एष दोषः, सम्बन्धसम्बन्धात् तस्य अपि योगो ऽस्त्येव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

530 प्रतिनिधिप्रतिदाने। अस्मादेव निर्देशाल्लिङ्गादाभ्यां योगे पञ्चमी। `ज्ञापकासिद्धं न सर्वत्र' इति `कृष्णस्य प्रतिनिधि'रित्यपि सिद्धमित्याहुः। मुख्यस्याऽभावे सति तत्सदृश उपादीयते स प्रतिनिधिः। देयस्य प्रतिनिर्यातनं प्रतिदानम्। #एअकर्तरि। हेतुभूतमिति। `हेतौ'इत्यनुवर्तते इथि भावः।

Satishji's सूत्र-सूचिः

TBD.