Table of Contents

<<2-2-38 —- 2-3-2>>

2-3-1 अनभिहिते

प्रथमावृत्तिः

TBD.

काशिका

अनभिहिते इत्यधिकारो ऽयं वेदितव्यः। यदित ऊर्ध्वम् अनुक्रमिष्यामः, अनभिहिते इत्येवं तद् वेदितव्यम्। अनभिहिते अनुक्ते, अनिर्दिष्टे कर्मादौ विभक्तिर् भवति। केन अनभिहिते? तिङ्कृत्तद्धितसमासैः परिसङ्ख्यानम्। वक्ष्यति, कर्मणि द्वितीया 2-3-2 कटं करोति। ग्रामं गच्छति। अनभिहिते इति किम्? तिङ् क्रियते कटः। कृत् कृतः कटः। तद्धितः शत्यः। शतिकः। समासः प्राप्तम् उदकं यं ग्रामं प्राप्तोदको ग्रामः। परिसङ्ख्यानं किम्? कटं करोति भीष्ममुदारं दर्शनीयम्। वहुषु बहुवचनम् इत्येवम् आदिना सङ्ख्या वच्यत्वेन विभक्तीनाम् उपदिष्टाः, तत्र विशेषणार्थम् इदम् आरभ्यते अनभिहितकर्माद्याश्रयेष्वेकत्वादिषु द्वितीयादयो वेदितव्याः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

528 अनभिहिते। इत्यधिकृत्येति। द्वितीयादि वक्ष्यत इत्यर्थः।

तत्त्वबोधिनी

475 अनभिहिते इतचि। ननु `बहुपटु'रित्यादौ बहुच्प्त्र्ययेनोक्तार्थत्वात्कल्पबादयो यथा न प्रवर्तन्ते तथा `क्रियते कट'इत्यादावपि तिङादिभिरुक्तार्थत्वाद्द्धितीया न भविष्यति। किञ्च `कटं करोती'त्यादौ सावकाशा द्वितीया `कृतः कट'इत्यादौ निरवकाशया प्रथमाया बाधिष्यते। न च वृक्षः प्लक्ष इत्यादौ प्रथमाया अवकाशः, तत्रापि प्रतीयमानामस्तिक्रियां प्रति कर्तृत्वेन तृतीयाप्रसङ्गात्। अथोच्यते—`नीलमिदं न तु रक्त'मित्यादौ विशेषणान्तरनिवृत्तितात्पर्यके अस्ति क्रियाया अनावश्याकत्वात्प्रथमाया अस्त्येवाऽवकाश इति, तर्हि उभयोः सावकशत्वे परत्वात्प्रथमैव स्यात्।तथा चाऽनभिहिताधिकारो वृथैवेति चेत्। अत्राहुः–`सङ्ख्या विभक्त्यार्थः'इति पक्षे सूत्रारम्भ आवश्यकः। तथाहि सूत्रारम्भे `कर्मणि द्वितीये'त्यस्याऽनभिहिते कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमित्यर्थः। सूत्राऽनारम्भे च कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमिति हि वाक्यार्थः। तथा च सति कृतः कट इत्यादौ क्तेन कर्ममात्रोक्तावपि तदेकत्वस्याऽनुक्ततया अम् दुर्वारः स्यचात्। न च परत्वात्प्रथमैव स्यादित वाच्यम्। `कर्यव्यः कट'इत्यादौ ततोऽपि परत्वेन कृद्योगलक्षणषष्ठीप्रसङ्गात्। `कारकं विभक्त्य्रथः'इति पक्षे तु कारकस्य क्तप्रत्यया दिनैवोक्तत्वात्प्रातिपदिकार्थे प्रवृत्तायाः प्रथमाया एकत्वादिबोधनसम्भवाच्चाऽमादिविभक्तेरप्रवृत्तौ `अनभिहिते'इति सूत्रं प्रत्याख्यातमाकरे इति।पक्षे तु कारकस्य क्तप्रत्ययादिनैवोक्तत्वात्प्रातिपदिकार्थे प्रवृत्तायाः प्रथमाया एकत्वादिबोधनसम्भवाच्चाऽमादिविभक्तेरप्रवृत्तौ `अद्योत्ये 'इत्यर्थः। तथा च क्तप्रत्ययादिभिरद्योत्ये कर्मणि द्वितीयत्येदिवाक्यार्थः। तत्राप्येकेन द्योतिते द्योतकान्तरं न प्रवर्तत इत्यभ्युपगमेत्वनभिहिताऽधिकारो नातीवोपयुज्यत इति दिक्।

Satishji's सूत्र-सूचिः

TBD.