Table of Contents

<<2-2-6 —- 2-2-8>>

2-2-7 ईषदकृता

प्रथमावृत्तिः

TBD.

काशिका

ईषतित्ययं शब्दो ऽकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति। ईषद्गुणवचनेन इति वक्तव्यम्। ईषत्कडारः। ईषत्पिङ्गलः। ईषद्विकटः। ईषदुन्नतः। ईषत्पीतम्। ईषद्रक्तम्। गुणवचनेन इति किम्? इह न भवति, ईषद् गार्ग्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

745 ईषदकृता। ईषच्छब्दोऽकृदन्तप्रकृतिकसुबन्तेन समस्यते स तत्पुरुष इत्यर्थः। ईषत्पिङ्गलं इति। पिङ्गलशब्दोऽव्युत्पन्नप्रातिपदिकमिति भावः। \र्\नीषद्गुणवचनेनेति। `अकृतेत्यपहाये'ति शेषः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.