Table of Contents

<<2-2-5 —- 2-2-7>>

2-2-6 नञ्

प्रथमावृत्तिः

TBD.

काशिका

नञ् समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। न ब्राह्मणः अब्राह्मणः। अवृषलः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

746 नञ्। इदं समानाधिकरणाधिकारस्थं नेत्यभिप्रेत्याह-सुपा समस्यत इति।

तत्त्वबोधिनी

660 नञ्। इह `नलोपो नञः'इत्यत्र विशेषणार्थो ञकारः। तत्फलं च नैकदेत्यत्राऽलोपः। `अव्यये नञ्कुनिपाताना'मित्यव्ययपूर्वपदप्रकृति स्वरार्थं ञकतारोच्चारणमित्यन्ये। सुपा सह समस्यत इति। उतरपदार्थप्रधानोऽयं समासः। तथाहि आरोपितत्वं नञा द्योत्यते। तथा च अब्राआहृणशब्दादारोपितो ब्राआहृण इति बोधे अर्थाद्द्ब्राहृणभिन्न इति पर्यवस्यति। अतएवाऽनुसर्जनत्वादतस्मिन्नस इत्यादौ सर्वनामकार्यं सिध्यति। तत्पुरुषस्यौत्सर्गिकमुत्तरपदार्थप्राधान्यमप्येवं सति निर्बाधम्। `एतत्तदो'रिति सूत्रेऽनञ्समासग्रहणं चेह लिङ्गमित्यादि मनोरमायानुसन्धेयम्।

Satishji's सूत्र-सूचिः

TBD.