Table of Contents

<<2-2-4 —- 2-2-6>>

2-2-5 कालाः परिमाणिना

प्रथमावृत्तिः

TBD.

काशिका

परिमाणमस्य अस्ति इति परिमाणी, तद्बाचिना सुबन्तेन सह सामर्थ्यात् परिमाणवचनाः कालशब्दाः समस्यन्ते, तत्पुरुषश्च समासो भवति। षष्ठीसमासविषये योगारम्भः। मासो जातस्य मासजातः। संवत्सरजातः। द्व्यहजातः। त्र्यहजातः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

707 कालाः परिमाणिना। परिमाणिपदं व्याचष्टे–परिच्छेद्यवाचिनेति। `काला'इति बहुवचनात्कालविशेषवाचका इत्यर्थः। मासजात इति। अत्र विग्रहे मासः प्रधानम्। समासे तु जातः प्रधानम्। `मासजातो दृश्यता'मित्यादौ जातस्यैव दर्शनकर्मत्वादिप्रतीतेः। विशेषणविशेष्यभावस्तु एकार्थीभावसम्बन्धसाध्यः। एतदेवाभिप्रेत्य मूले क्वचित् पुस्तके `मासो जातस्य यस्य स' इति पठितम्। तत्र विग्रहे जातस्येति परिच्छेद्यपरिच्छेदकभावे षष्ठी। जातपरिच्छेदको मास इति विग्रहवाक्ये बोधः। मासपरिच्छेद्यो जात इति समासाद्बोधः। तत्र मासस्तावज्जननं साक्षात्परिच्छिनत्ति। जननाश्रयं तु देवदत्तं जननद्वारां परिच्छिनत्ति। तथाच `मासपरिच्छेद्यजननाश्रयो देवदत्त' इति समासाद्बोधः फलति। षष्ठीसमासापवादोऽयम्। षष्ठीसमासे तु `जातमास' इति स्यात्। न च मासो जातस्य यस्य स मासजात इति बहुव्रीहिणैवैतत्सिद्धमिति वाच्यं, समानाधिकरणानामेव बहुव्रीहिविधानात्। `निष्ठे'ति जातशब्दस्य पूर्वनिपातापत्तेश्च। `जातिकालसुखादिभ्यः परा निष्ठा वाच्ये'ति जातशब्दस्य परनिपातस्तु न, सुखादावस्य पाठकल्पनायां प्रमाणाऽभावादित्यलम्। द्व्यहो जातस्येति। `तद्धितार्थ' इति समाहारे द्विगुः' `राजाहःसखिभ्यः' इति टच्। `रात्राह्नाहाः पुंसी'ति पुंस्त्वम्। \र्\नुत्तरपदेनेति। `तद्धितार्थ' इति सूत्रभाष्ये इदं वार्तिकं पठितम्। तेन हि सूत्रेण उत्तरपदे परे दिक्सङ्ख्ययोस्सुबन्तेन द्विगुसमासो विहितः। उत्तरशब्दश्च समासस्य चरमावयवे रूढः। ततश्च द्वे अहनी जातस्य यस्येति विग्रहे त्रयाणां समासे सति जातशब्दे उत्तरपदे संपन्ने पूर्वयोः सुबन्तयोर्द्विगुसमासप्रवृत्तिर्वक्तव्या। सच समासस्त्रयाणां `कालाः परिमाणिने'ति पूर्वसूत्रेण न सम्भवति, `सुप्सुपे'त्येकत्वस्य विवक्षितत्वात्। अत उत्तरपदेन परिमाणिना परिच्छेद्यवाचिना परनिमित्तभूतेन हेतुना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसङ्ख्यानं वक्तव्यमित्यर्थः। उत्तरपदभूतपरनिमित्तकद्विगुसिद्धये त्रिपदतत्पुरुषो वाच्य इति यावत्। `सुप्सुपे'त्येकत्वलं विवक्षितमित्यत्र इदमेव लिङ्गम्। द्वे अहनी इति। द्वे अहनी जातस्येति विग्रहे त्रयाणां समासे सुब्लुकि `द्व्यहन्-जात' इति जातशब्दे उत्तरपदे परे द्वि-अहन् इत्यनयोः `तद्धितार्थ'इति द्विगुसमासे `राजाहःसखिभ्यः' इति टचि `अह्नोऽह्न एतेभ्यः' इत्यह्नादेशे `द्यह्नजात' इति रूपमित्यर्थः। अत्र पूर्वयोर्द्विगुतत्पुरुषत्वाऽभावे टच्, अह्नादेशश्च न स्यातामिति भावः। ननु द्वयोरह्नोः समाहारो द्व्यह इति कथं पूर्वमुक्तं, तत्राप्यह्नादेशप्रसङ्गादित्यत आह–पूर्वत्र त्विति। निषेध इति। अह्नादेशनिषेध इत्यर्थः।

तत्त्वबोधिनी

629 कालाः परिमाणिना। परिमीयते परिच्छिद्यते येन तत्परिमाणं=परिच्छेदकं, तद्वान्परिमाणी, तदाह–परिच्छेद्यवाचिनेति। काला इति। कालविशेषवाचका इत्यर्थः। सूत्रे बहुवचननिर्देशात्कालसामान्यस्याऽपरिच्छेदकत्वाच्च। मासो जातस्येति। षष्ठीसमासे प्राप्ते वचनम्। ननु जातः पुरुषस्तस्य तु हस्तवतस्त्यादिकं परिच्छेदकं, न तु कालः, तस्य क्रियामात्रपरिच्छदकत्वादिति चेत्। अत्राहुः–साक्षात्क्रियां परिच्छिन्दन्नपि कालस्तद्द्वारा देवदत्तं परिच्छिनति। यस्य हि जननादूध्र्वं मासो गतः स `मासजात' इति व्यवह्ययते। तत्र व्यवहारकालजननक्षणयोरन्तलभावी मासो जननद्वारा जातमपि परिच्छिनत्त्येवेति। इह विग्रहे षष्ठीनिर्दिष्टस्यापि वृत्तौ प्राधान्यं द्योतयितुं `यस्य [सः']इत्युक्तम्। अलौकिके तु प्रक्रियावाक्ये नास्य प्रवेशः। एवं बहुव्रीहावपीति बोध्यम्। ननु `जातस्य मासः' इति विग्रहे वृत्तौ मासशब्दस्य पूर्वपातार्थमेतत्सूत्रारम्भस्यावश्यकत्वेऽपि मासविशेष्यकबोध एवत्रोचित इति किमनेन `जातस्य यस्य सः'इति कथनेनेति चेत्। अत्राहुः–`मासजातो मृतः'इत्यादिप्रयोगानुरोधेन विग्रहे `यस्य सः' इति स्वीक्रियत इति. मासजात इति। यद्यपि मासो जातो यस्येति बह#उव्रीहिणापीदं सिध्यति, `जातिकालसुखादिभ्यः परा निष्ठा वाच्ये'ति वचनात्। न च स्वरे विशेषः। ` वा जाते'इत्यन्तोदात्तत्वस्यापि सिद्धेः, तथापि षष्ठीसमासापवादार्थमिदमारम्भणीयमेव। किं च मासो जातवतो यस्य सामासजातवानित्येतदर्थमपीदमवश्यारम्भणीयमिति।\र्\नुत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसङ्ख्यानम्। उत्तरपदेनेति। परिमाण्युत्तरपदहेतुकद्विगुसिद्धये त्रिपदतत्पुरुषो वक्तव्य इत्यर्थः। `सुप्सुपे'त्येकत्वस्य विवक्षितत्वादप्राप्ते वचनम्। अस्मादेव वार्तिकारम्भात् `सुप्सुपे' त्येकत्वं विवक्षितमिति ज्ञायते। अह्नादेश इति। त्रपदतत्पुरुषे सत्युत्तरपदे परतः `तद्धितार्थ'इत्यवान्तरद्विगौ सतीति भावः। पूर्वत्रेति। व्द्यहजात इत्यत्रेत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.