Table of Contents

<<2-2-24 —- 2-2-26>>

2-2-25 सङ्ख्यया ऽव्ययाऽसन्नादूराधिकसङ्ख्याः सङ्ख्येये

प्रथमावृत्तिः

TBD.

काशिका

सङ्ख्येये या सङ्ख्या वर्तते तया सह अव्ययाऽसन्नादूराधिकसङ्ख्याः समस्यन्ते बहुव्रीहिश्च समासो भवति। अव्यय उपदशाः। उपविंशाः। आसन्नदशाः। आसन्नविंशाः। अदूरदशाः। अदूरविंशाः। अधिकदशाः। अधिकविंशाः। सङ्ख्या द्वित्राः। त्रिचतुराः। द्विदशाः। सङ्ख्यया इति किम्? पञ्च ब्राह्मणाः। अव्ययाऽसन्नादूराधिकसङ्ख्याः इति किम्? ब्राह्मणाः पञ्च। सङ्ख्येये इति किम्? अधिका विंशतिर् गवाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

833 सङ्ख्यया। शेषग्रहणम्, `अनेकमन्यपदार्थे' इति च निवृत्ते। `बहुव्रीहि'रित्यनुवर्तते। `सुप्सुपा' इति च। `सङ्ख्येये' इतयेतत्सङ्ख्ययेत्यत्रान्वेति। सङ्ख्यया परिच्छेद्यं-सङ्ख्येयम्। `तत्रार्थे विद्यमानया सङ्ख्यये'ति लभ्यते। सङ्ख्या शब्दश्चायं न स्वरूपपरः, किंतु एकादिशतान्तशब्दपरः। तदाह–सङ्ख्येयार्थया सङ्क्ययेति। एकादिशब्देन सुबन्तेनेत्यर्थः। अव्ययादय इति। अव्यय-आसन्न-अदुर-सङ्ख्या एते सुबन्ता इत्यर्थः। अत्रापि सङ्ख्याशब्दो न स्वरूपपरः, किंतु एकादिशब्दपर एव। अत्रेदमवधेयम्-विशतेः प्रागेकादिशब्दाः सङ्ख्येयेषु वर्तन्ते, विशेष्यलिङ्गाश्च। दसादयो नित्यबहुवचनान्ताः। विंशत्यादिशब्दास्तु नित्यमेकवचनान्ताः, सङ्ख्यायां सङ्ख्येये च वर्तन्ते, नवतिपर्यन्ताः नित्यस्त्रीलिङ्गाश्च। यता विंशतिब्र्राआहृणाः, ब्राआहृणानां विंशतिरिति। यदा विंशत्यादिः सङ्ख्या, ततो द्वित्वबहुवचने स्तः। यथा गवां द्वे विंशती इति। चत्वारिंशदिति गम्यते। गवां तिरुआओ विंशतय इति। षष्ठिरिति गम्यते। `विंशत्याद्याः सदैकत्वे सङ्ख्याः सङ्ख्येयसङ्क्ययोः। सङ्ख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः।' `इत्यमरः। अत्राव्ययस्योदाहरति–उपदशा इति। उपशब्दस्य समीपार्थकस्याव्ययीभाव उक्तः। इह तु समीपवर्त्तिनि उपशब्दो वर्तते। दशसमीपवर्तिन इत्यर्थः। ततश्च अन्यपदार्थवृत्तित्वाऽभावादप्रथमान्तत्वाच्च `अनेकमन्यपदार्थे' इत्यप्राप्ते वचनमिदम्। तस्य दशानां वृक्षादीनां समीपवर्तिनो गवादय इत्यर्थभ्रमं वारयति–नवैकादश वेत्यर्थ इति। सामीप्यमिह दशन्शब्दार्थगतदशत्वापेक्षम्, एकार्थीभावबलात्। तथाच दशत्वसमीपवर्तिसङ्ख्यावत्सु उपशब्द इति फलति। ततश्च दशत्वसमीपवर्तिसङ्ख्यावन्त इति बोधपर्यवसानं भवति। डजिति। उपदशन्शब्दाड्डचि `नस्तद्धिते' इति टिलोप इति भावः।

तत्त्वबोधिनी

730 यः स्त्रीप्रत्यय इति। टाबादिः। प्राचा तु ङीषेवोपत्तस्तदयुक्तमिति ध्वनयन्नुदाहपरति–शूद्राभार्य इति। ब्राआहृणीति। शाङ्र्गरवादितवीन्ङीन्। प्राचा तु `ङीष् न पुंव'दिति व्याख्याय `ब्राआहृणीभार्य'इत्युदाह्मतं, तद्रभसात्। सौत्रस्यैवेति। व्याख्यानादिति भावः। `न कोपधायाः'इति निषेधस्तु `भस्याढे'इति प्राप्तस्यापि भवत्येव। तेन विलेपिकाया धम्र्यं वैलेपिकमिति सिद्धम्। यदि `अण्पहिष्यादिभ्यः'इत्यणि पुंवद्भावः स्यात्तर्हीकारोऽत्र न श्रूयेत। एतच्च `न कोपधायाः'इति सूत्रे भाष्ये स्पष्टम्। प्रासङ्गिकं समाप्य प्रकृतमनुसरति– सङ्ख्ययेति। सामानाधिकरण्यास्यान्यपदार्थवृत्तेश्च विरहात्पूर्वोणाऽप्राप्तौ वचनम्। दशानामिति। उपगता दश येषामिति न विगृहितं, पूर्वेणैव सिद्धेः। उपदशा इति। उपशब्दः समीपे समीपिनि च वरितते। आद्येऽव्ययीभावः, द्वितीये तु बहुव्रीहिरिति विवेकः। नव एकादश वेत्यर्थ इति। सङ्ख्याद्वारकसम्बन्धस्याऽन्तरङ्गत्वादिति भावः। तेन दशानां वृक्षादीनां समीपे ये सन्ति गवादयस्ते `उपदशा' इति न प्रयुज्यन्ते। सूत्रे तीति लुप्तषष्ठीकमित्याशयेनाह–।

Satishji's सूत्र-सूचिः

TBD.