Table of Contents

<<2-2-22 —- 2-2-24>>

2-2-23 शेषो बहुव्रीहिः

प्रथमावृत्तिः

TBD.

काशिका

उपयुकतादन्यः शेषः। षेशः समासो बहुव्रीहिसंज्ञो भवति। कश्च शेषः समासो न उक्तः। वक्ष्यति अनेकम् अन्यपदार्थे 2-2-24 चित्रगुः। शबलगुः। कृष्णोत्तरासङ्गः। शेषः इति किम्? उन्मत्तगङ्गम्। लोहितगङ्गम्। बहुव्रीहिप्रदेशाः न बहुव्रीहौ 1-1-29 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

968 अधिकारोऽयं प्राग्द्वन्द्वात्..

बालमनोरमा

819 शेषो बहुव्रीहिः। त्रिकस्येति। विभक्तेरित्यर्थः। ननु `द्वितीया श्रिते'ति `तृतीया तत्कृते'ति `चतुर्थी तदर्थे'ति `पञ्चमी भयेने'ति, `षष्ठी'ति, `सप्तमी शौण्डै'रिति च द्वितीयादिविभक्तीनां षण्णां समासो विहितः। `विशेषणं विशेष्येणे'त्यादिना तु प्रथमाया अपि समासो विहितः, अतः शेषविभक्तिर्दुर्लभेत्यत आह–विशिष्येति। विशेषणसमासस्य वस्तुतः प्रथमाविभक्तौ प्रवृत्तावपि प्रतमाविभकिं?त विशिष्य उच्चार्य विधानाऽभावात्समासविधिषु विसिष्यनिर्दिष्टद्वितीयादिविभक्तिषट्कापेक्षया शेषः प्रथमाविभक्तिरित भावः। तदाह- -प्रथमान्त इत्यर्थ इति। एतच्च भाष्ये स्पष्टम्।

तत्त्वबोधिनी

719 शेषो बहुव्रीहिः। `शिष् असर्वोपयोगे' कर्मणि घञ्। अत्र वृत्तिकृत्—, `यत्रान्यः समासो नोक्तः स शेष' इत्याह। `येषां पदानां यस्मिन्नर्थेऽव्ययीभावादिसंज्ञकः समासो न विहितः स शेष इत्यर्थ'इति हरदत्तो व्याख्यात्। एतच्च `प्राक्कडारात्परं कार्य'मिति पाठाभिप्रायेण बोध्यम्। अस्मिस्तु पक्षे शेषग्रहणाऽभावे उन्मत्तगङ्गमित्यत्र परत्वाद्बहुव्राहिः स्यात्, निरवकाशत्वाच्चाऽव्ययीभाव इत्युन्मत्तगङ्ग इत्याद्यनिष्टं पक्षे प्रसज्यते। `आ कडारादेके'ति पाठाभ्युपगमपक्षे त्वेकसंज्ञाऽधिकारेणावेन्मत्तगङ्गमित्यादिसिद्धेः शेषग्रहणं व्यर्थम्। निरवकाशतयाऽव्ययीभावसंज्ञया बहुव्रीहिसंज्ञाया बाधात्। अतस्तत्रापि प्रयोजनमाह–द्वितीया श्रितेत्यादिनेति। सेषधिकारस्थबहुव्रीहेरेव `शेषाद्विभाषे'ति कप्प्रत्ययो नान्यस्माद्बहुव्रीहोरित्येतल्लाभार्थमपि शेषग्रहणमावश्यकमिति बोध्यम्। यस्य त्रिकस्येति। यद्यपि `प्रादयो गताद्यर्थे प्रथमये'त्युक्तम्, तथापि `द्वितीया श्रितादिभिः'इतिवत् `प्रथमा केनचित्सह समस्यते'इति नोक्तमित्यर्थः। वार्तिककृता प्रथमयेत्युक्तावपि सूत्रकृता नोक्तमिति वा। प्रथमान्तमिति। `कण्ठेकाल'इत्यादिबहुव्रीहिस्तु ज्ञापकसाध्य इति भावः। अन्यस्य पदस्यार्थ इति। समस्यमानपदातिरिक्तस्य पदस्याऽर्थ इत्यर्थः। पदेन हि प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः कर्मकत्र्रादिरभिधीयते। प्रथमान्तेन तु प्रातिपदिकार्थमात्रम्। यद्यपि त्रिकपक्षे सङ्ख्या प्रत्ययार्थस्तथापि तस्याः प्रकृत्यर्थं प्रति विशेषणत्वान्न प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः प्रथमान्तस्यास्ति। एवं च `द्वितीयान्ताद्यर्थे'इति फलितम्।

Satishji's सूत्र-सूचिः

TBD.