Table of Contents

<<1-1-28 —- 1-1-30>>

1-1-29 न बहुव्रीहौ

प्रथमावृत्तिः

TBD.

काशिका

सर्वनामसंज्ञायां तदन्तविधेरभ्युपगमाद् बहुव्रीहेरपि सर्वाऽद्यन्तसय् संज्ञा स्यातिति प्रतिषेध आरभ्यते। बहुव्रीहौ समासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति। प्रियविश्वाय। प्रियोभ्याय। द्व्यन्याय। त्र्यन्याय। इह च, त्वत्कपितृकः, मत्कपितृकः इत्यकज् न भवति। बहुव्रीहौ इति वर्तमाने पुनर्बहुव्रीहिग्रहणं भूतपूर्वमात्रे ऽपि प्रतिषेधो यथा स्यात्, वस्त्रान्तरवसनान्तराः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

220 तत्रेदमारभ्यते–`न बहुव्रीहौ'। `सर्वादीनि सर्वनामानी'त्यनुवर्तते। बहुव्रीहौ सर्वादीनि सर्वनामानि न स्युरित्यर्थः प्रतीयते। एवं सति सूत्रमिदं व्यर्थं, `प्रियसर्वाये'त्यादीनां बहुव्रीहिवर्तिनां सर्वादीनां स्वार्थोपसङ्क्रान्तार्थान्तप्रधानकतयोपसर्जनत्वादेव सर्वनामत्वनिषेधसिद्धेः, `संज्ञोपसर्जनीभूतास्तु न सर्वादयः' इति वक्ष्यटमाणत्वात्। अतो व्याचष्टे - - चिकीर्षित इति। बहुव्रीहाविति विषयसप्तम्याश्रयणादयमर्थो लभ्यते। तथाच बहुव्रीहौ प्रसक्ते सति ततः प्रागेव विग्रहवाक्येऽयं निषेधोर्थवान्। एकार्थीभावात्मकसामथ्र्यस्य समासदशायामेव सत्त्वेन विग्रहवाक्ये तदभावेन तदानीमुक्तोपसर्जनत्वस्याऽभावादिति भावः। अथ लौकिकविग्रहवाक्यं दर्शयल्लँक्ष्यभूतं बहुव्रीहिं दर्शयति–त्वकं पितेत्यादिना। सर्वनामत्वाऽभावात्कप्रत्यये `प्रत्ययोत्तरपदयोश्चे'ति त्वमादेशे त्वत्को मत्क इति च रूपम्। ननु बहुव्रीहिप्रवृत्तेः प्रागलौकिकविग्रहवाक्ये सर्वनामत्वनिषेधात्त्वं पितेति कथं लोकिकविग्रहवाक्यप्रदर्शनमित्यत आह–इहेति। `न बहुव्रीहा'वित्यस्मिन्सूत्र इत्यर्थः। प्रक्रियावाक्य इति। युष्मद् स्-पितृ स्, अस्मद् स्-पित#ऋ स्– इत्यलौकिकविग्रहवाक्य एवेत्यर्थः। लोकिकविग्रहवाक्ये तु नायं निषेधः, बहुव्रीहिवत्तस्य स्वार्थे परिनिष्ठितत्वेन स्वतन्त्रप्रयोगाह्र्मतया बहुव्रीहेस्तत्र चिकीर्षितत्वाऽभावादलौकिकविग्रहात्मके प्रक्रियावाक्य एव तस्य चिकीर्षितत्वात्। यथा चैतत्तथा समासनिरूपणे वक्ष्यते नन्वलौकिकविग्रहवाक्ये मास्तु सर्वनामतानिषेधः, को दोषः?। तत्राह-अन्यथेति। न बहुव्रीहावित्यलौकिकविग्रहवाक्ये निषेधाऽभावे सतीत्यर्थः। तत्रापीति। अलौकिकविग्रहवाक्येऽपीत्यर्थः। तस्य प्रयोगानर्हत्वेन बाधकाऽभावादित्यत आह–स चेति अलौकिकविग्रहवाक्ये श्रुतस्य लौकिकविग्रहवाक्ये समासे च श्रवणनियमादिति भावः। उभयत्रापि तन्नियमे दृष्टान्तद्वयमाह–अतिक्रान्तो भवकन्तमित्यादि। भवच्छबन्दस्य सर्वादिगणे पाठात्सर्वनामत्वादलौकिकविग्रहदशायामकच्। ततश्च भवकत् अम् अति इत्यलौकिकविग्रहवाक्यं संपद्यते। तत्र `अत्यादयः क्रान्ताद्यर्थे द्वितीयये'ति समासे सति `सुपो धातुप्रातिपदिकयो'रिति सुब्लुकि अतिभवकच्छब्दात्प्रथमैकवचने।ञतिभवकानिति रूपम्। समासाऽभावपक्षे तु भवकन्तमतिक्रान्त इति लौकिकविग्रहवाक्यं भवति। तत्र समासदशायां भवच्छब्दार्थस्य स्वोपसङ्कान्तार्थान्तरप्रधानतयोपसर्जनत्वे।ञप्यलौकिकविग्रहदशायां भवच्छब्दस्यानुपसर्जनत्वात्सर्वनामत्वे सति प्रवृत्तोऽकच् अतिक्रान्तो भवकन्तमिति लौकिकविग्रहवाक्येऽभवकानिति समासे चानुवर्तते, लौकिकविग्रहदसायां भवच्छब्दस्योक्तरीत्याऽनुपसर्जनत्वात्। समासे तस्योपसर्जनत्वेऽपि योनिभूताऽलौकिकविग्रहदशायां प्रवृत्तस्याऽकचो निवर्तकाऽभावात्। इत्यलौकिकविग्रहदशायां सतोऽप्यनुपसर्जनत्वस्य समासदशायां विनाशं प्राप्स्यमानतया विनाशोन्मुखत्वादकृतव्यूहपरिभाषयाऽलौकिकविग्रहवाक्येऽपि सर्वनामत्वाऽभावादकज्दुर्लभः। ततश्चाऽतिक्रान्तो भवकन्तमिति लोकिकविग्रहवाक्येऽतिभवकानिति समासे च कथमकच्प्रसक्त इति दृष्टान्तऽसिद्धिरिति वाच्यम्। एवञ्जातीयकाऽलौकिकविग्रहवाक्ये सर्वनामत्वप्रवृत्तावकृतव्यूहपरिभाषाया अनित्यत्वेनाऽनाप्रवृत्तेः। तदनित्यत्वे च न बहुव्रीहाविति सूत्रमेव ज्ञापकम्। तथा हि–यद्यकृतव्यूहपरिभाषा सार्वत्रिकी स्यात्, तर्हि बहुव्रीहिविषयेऽपि युष्मद् स् पितृस् इत्याद्यलौकिकविग्रहवाक्येऽनुपसर्जनत्वस्य बहुव्रीहिकालिकविनाशोन्मुखतया सर्वनामत्वस्याऽप्रसक्तत्वात् `न बहुव्रीहा'विति नारभ्येत। अकृतव्यूहपरिभाषायास्तत्र प्रवृत्तेर्भविष्यद्बहुव्रीहिकालिकविनाशोन्मुखमनुपसर्जनत्वं पुरस्कृत्य तदलौकिकविग्रहवाक्ये सर्वनामत्वस्याऽप्रसक्तत्वान्न तन्निषेधाय न बहुव्रीहावित्यर्थवत्। नचोदाह्मतबहुव्रीहिविषयाऽसोकिकविग्रवाक्येऽकृतव्यूहपरिभाषामाश्रित्यैव सर्वनामत्वाऽभाव आश्रीयतां, किं न बहुव्रीहाविति सूत्रेणेति वाच्यम्। एवं सत्यतिक्रान्तो भवकन्तमतिभवकनित्यादि न सिध्येत्। अकृतव्यूहपरिभाषया तदलौकिकविग्रहवाक्येऽपि सर्वनामत्वाऽभावेनाकचः प्रवृत्त्यभावे तस्यातिक्रान्तो भवकन्तमित्यादिलौकिकविग्रहवाक्येऽतिभवकानिति समासेऽपि च श्रवणं न स्यात्। एवञ्च बहुव्रीहिविषयेऽलौकिकविग्रहवाक्येऽकृतव्यूहपरिभाषाया अप्रवृत्त्यसिद्धवत्कृत्य सर्वनामत्वनिषेधात्तदितरसमासविषयेऽप्यलौकिकविग्रहवाक्येऽकृतव्यूहपरिभाषाया अप्रवृत्त्या सर्वनामत्वं विज्ञायते। एतदर्थमेव न बहुव्रीहाविति सूत्रमित्यन्यत्र विस्तरः। प्रत्याचख्याविति। निराकृतवानित्यर्थः। सूत्रभाष्ययोरुभयोरपि स्मृतित्वाऽविशेषाद्विकल्पमाशङ्कयाह–यथोत्तरमिति। सूत्रकाराद्वार्तिककारस्य, उभाभ्यामपि भाष्यकृत इत्येवं मुनीनामुत्तरोत्तरस्य ग्रन्थस्य प्रामाण्यं, पूर्वपूर्वस्याऽप्रामाण्यमिति वैयाकरणसमय इति भावः। न चाऽकृतव्यूहपरिभाषाया उक्तरीत्या अनित्यत्वज्ञापनार्थमेतत्सूत्रमिति वाच्यम्, अकृतव्यूहपरिभाषाया निमूर्लत्वस्य निष्फलत्वस्य च हलन्तादिकारे सेदिवस्शब्दनिरूपणे, `समर्थानां प्रथमाद्रे'त्यत्र च वक्ष्यमाणत्वात्। संज्ञोपसर्जनीभूता इति। आधुनिकसङ्केतः संज्ञा। अन्यविशेषणत्वेन स्वार्थोपस्थापकम्–उपसर्जनम्। न सर्वादय इति। सर्वादिगणे पठिता न भवन्तीत्यर्थः। सर्वेषां नामानीत्यन्वर्थसंज्ञाकरणबलेन प्राधान्येनोपस्थितस्वीयसर्वार्थवाचकत्वस्य सर्वनामशब्दप्रवृत्तिनिमित्तत्वमित्यवगततया तथाविधानामेव सर्वादिगणे पाठानुमानादित्यर्थः। `प्राधान्येनोपस्थिते'त्यनेन उपसर्जनव्यावृत्तिः। `प्राधान्येनोपस्थितसर्वार्थवाचकत्व'मित्युक्ते पूर्वादिशब्देष्वव्याप्तिरतः- `स्वीये'ति। सर्वार्थे'त्यनेन संज्ञाशब्दव्यावृत्तिः, संज्ञाशब्दानामेकैकव्यक्तिविषयकत्वात्। संज्ञाकार्यमिति। सर्वनामसंज्ञाकार्यं शीस्मायादिकमित्यर्थः। अन्तर्गणेति। सर्वादिगणेऽन्तर्गतो गणः-अन्तर्गणः। तदीयं कार्यम् =`अद्ड्डतरादिभ्यः' त्यदादीनामः' इत्यादिकमित्यर्थः। सर्वाय देहीति। संज्ञाशब्दत्वात्समायादेशो न। \र्\नतिकतरमिति। कतरमतिक्रान्तं कुलम् अतिकतरमित्यत्र कतरशब्दस्य उपसर्जनत्वान्नाऽद्डादेशः। अतितदिति। तमतिक्रान्तो ब्राआहृणोऽतितदित्यत्र त्यदाद्यत्वं, `तदोः सः सौ' इति च न भवति।

तत्त्वबोधिनी

185 न बहुव्रीहौ। कृते बहुव्रीहौ निषेधो व्यर्थः, `उपसर्जनीभूतास्तु न सर्वादयः' इति वक्ष्यमाणत्वात्। अत आहचिकीर्षित इति। `बहुव्रीहा'वित्यत्र विषयसप्तम्याश्रयणादयमर्थो लभ्यते। त्वकमिति। अज्ञाते कुत्सिते वा `अव्ययसर्वनाम्ना'मित्यकच्। एवमहकमित्यत्रापि। प्रक्रियावाक्ये इति। अलोकिकविग्रहवाक्ये इत्यर्थः। तच्च `युष्मद् सु पितृ सु' इत्याद्याकारकम्। ननु तत्राऽकच् प्रवर्ततां को दोष इत्यत आह–स चेति। न च निमित्तस्यानुपसर्जनत्वस्य विनाशोन्मुखत्वादकृतव्यूहपरिभाषया समासात्प्रागपि सर्वनामता न भविष्यतीति वाच्यं, तस्या अनित्यत्वात्। तत्र चूतत्सूत्रस्यैव ज्ञापकत्वात्। अतिभवकानिति। इदमेव ज्ञापनफलमिति भावः। `अत्यादयः क्रान्ताद्यर्थे द्वितीयये'ति प्रादिसमासः। प्रत्याचख्याविति। `छ्वोः शू'डिति सतुग्ग्रहणं, प्रकृतिप्रत्यापत्तिवचनं वा अनित्यत्वे ज्ञापकं, लक्ष्यानुरोधाच्च व्यवस्थेति भावः। यथोत्तरमिति। तथाच सम्प्रति भाष्यकारोतयैव व्यवस्थेति भावः। गणेसंनिवेशादिति। एतेन `पूर्वपरावरे'ति गणसूत्रे `असंज्ञाया'मिति ग्रहणं मन्दप्रयोजनमिति ध्वनितम्। संज्ञायां यानि पूर्वादीनि तेषां गणे संनिवेशाऽभावात्। एवमष्टाध्यायीस्थे `पूर्वपरावरे'ति सूत्रेऽपि `असंज्ञाया'मित्येतत्त्युक्तुं शक्यम्। न च तदभावे जसि परतः संज्ञायाम् `उत्तराः कुरव' इत्यत्राऽप्राप्तविकल्पः स्यांदिति वाच्यं, सर्वनामसंज्ञाया अन्वर्थत्वेन संज्ञायामप्राप्तविधेरसंभवादसंज्ञायामेव पूर्वेण प्राप्ता संज्ञा जसि वा स्यादिति वक्तुमुचितत्वात्। संज्ञाकार्यमिति। सर्वनामसंज्ञाप्रयुक्तं स्मायादिकमित्यर्थः। अन्तर्गणकार्यमिति। `अद्ड्डतरादिभ्यः,'`त्यादादीनामः', `तदोः सः सौ' इत्यादिकमित्यर्थः। अतिकतरमिति। अत्राऽद्डादेशो न। `अतित'दित्यत्र तु त्यदाद्यत्वं, `तदो सः सौ' इति सत्वं च नेति भावः।

Satishji's सूत्र-सूचिः

TBD.