TBD.
न इति निवृत्तम्, न तृजकौ। नित्यं समासो विधीयते। क्रिडायां जीविकायां च नित्यं षष्ठी समस्यते, तत्पुरुषश्च समासो भवति। तृच् क्रिडाजीविकयोर् न अस्ति इत्यक एव उदाह्रियते। उद्दालकपुष्पभञ्जिका। वारनपुष्पप्रचायिका। जीविकायाम् दन्तलेखकः। नखलेखकः। क्रिडाजीविक्योः इति किम्? ओदनस्य भोजकः।
TBD.
–
702 नित्यं क्रीडा। उद्दालकपुष्पभञ्जिकेति। उद्दालकः=श्लेष्मातकः, तस्य पुष्पाणि, तेषां भञ्जनमित्यस्वपदविग्रहः। संज्ञायामिति। `स्त्रियां क्तिन्' इत्यधिकारे `संज्ञाया'मिति भावे ण्वुलित्यर्थः। अत्र कर्मणि षष्ठ्याः समासः। वस्तुतस्तु `स्त्रियां क्ति' न्नित्यधिकारे `धात्वर्थनिर्देशे ण्वु'लिति भावे ण्वुलित्येव युक्तम्। `संज्ञाया'मिति त्वधिकरणार्थमिति कृदन्ते वक्ष्यते। तथा सति उद्दालकपुष्पाणि भज्यन्ते यस्यां क्रीडायामिति विग्रहः। जीविकायामिति। उदाहरणं वक्ष्यत इत्यर्थः। दन्तलेखक इति। दन्तानां लेखनेन जीवतीत्यस्वपदविग्रहः। लिखेः कर्तरि ण्वुल्। अकादेशः। जीविका समासगम्या। ननु `षष्ठी'ति सूत्रेणैवात्र षष्ठीसमाससिद्धेः किमर्थमिदमित्यत आह–तत्रेति। तत्र=तस्मिन्नुदाहरणद्वये, क्रीडाबाधके `उद्दालकपुष्पभञ्जिके'त्यत्र विभाषाधिकारात् षष्ठीसमासनिषेधे प्राप्ते, जीविकाबोधकेतु `दन्तलेखक' इत्यत्र `तृजकाभ्याम्' इति षष्ठीसमासनिषेधे प्राप्ते इदं सूत्रमारब्धमित्यर्थः।
624 नित्यंक्री। भावे ण्वुलिति। भञ्जनं भञ्जिता। `पुष्पाणा'मिति कर्मणि षष्ठी। `भावे'इत्युपलक्षणम्, अधिकरणे ण्वुल्यपि बाधकाभावादिति मत्वा `संज्ञाया'मिति सूत्रे कृदन्ते मनोरमायामुक्तम् `उद्दालकः श्लेष्माकतसत्स्य पुष्पाणि भज्यनते यस्यां क्रीडायां सा उद्दालकपुष्पभञ्जिके'ति।
TBD.