Table of Contents

<<2-1-8 —- 2-1-10>>

2-1-9 सुप् प्रैत्ना मात्राऽर्थे

प्रथमावृत्तिः

TBD.

काशिका

मात्रा बिन्दुः, स्तोकम्, अल्पम् इति पर्यायाः। मात्राऽर्थे वर्तमानेन प्रतिना सह सुबन्तं समस्यते, अव्ययीभावश्च समासो भवति। अस्त्यत्र किञ्चित् शाकम् शाकप्रति। सूपप्रति। मात्राऽर्थे इति किम्? वृक्षं प्रति विधोतते विद्युत्। सुपिति वर्तमाने पुनः सुब्ग्रहणम् अव्ययनिवृत्त्यर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

655 सुप्प्रतिना मात्रार्थे। सुबिति छेदः। मात्रा-लेशः। तस्मिन्नर्थे विद्यमानेन प्रतिना सुबन्तं समस्यत इत्यर्थः। सुबित्यनुवर्तमाने पुनः सुब्ग्रहणं संनिहितस्याऽव्ययमित्यस्याननुवृत्त्यर्थं, तद्ध्वनयन्नुदाहरति-शाकस्य लेश इति। अत्र `प्रती'त्यव्ययं मात्रार्थकम्। अतस्तेन शाकस्येति सुबन्तस्य समासः। समासविधौ सुबन्तस्य प्रथमानिर्दिष्टत्वेन उपसर्जनत्वात्पूर्वनिपातः, न तु प्रतेः, तस्य समासविधौ तृतीयानिर्दिष्टत्वात्। वृक्षं प्रतीति। अत्र प्रतेर्मात्रार्थकत्वाऽभावान्न तेन समासः। न च `लक्षणेत्थ'मिति कर्मप्रवचनीयत्वविधानसामथ्र्यादेवाऽत्र समासो न भविष्यति, सति समासे द्वितीयायाः षष्ठ\उfffदा वा लुकि अविशेषात्, सकृत्प्रवृत्ततया समासात्तद्विभक्त्यनुत्पत्तेरिति वाच्यम्, `वृक्षं प्रति सिञ्चती'त्यादौ `उपसर्गात्सुनोती'ति षत्वनिवृत्त्या कर्मप्रवचनीयत्वस्य चरितार्थत्वादित्यन्यत्र विस्तरः।

तत्त्वबोधिनी

580 सुप्प्रतिना। सुबित्यनुवर्तमाने पुनः सुब्ग्रहणमव्ययनिवृत्त्यर्थमिति ध्वनयन्नुदाहरति–शाकप्रतीति।नन्वारम्भसामथ्र्यादव्ययभिन्नमेव सुप्समस्यत इति चेत्। अत्राहुः–पुनः सुब्ग्रहणाऽभावे दोषामन्यमहर्दिवामन्या रात्रिरिति वृत्तिविषये सत्त्वप्रधानतादर्शनात्तादृशाव्ययान्येव मात्रार्थे प्रतिना समस्येरन्, तथा च दिवसस्य लेशो दिवाप्रति दोषाप्रतीत्यादीनाहरणत्वं संभाव्येतेति। वृक्षं प्रतीति। ननु लक्षणादौ प्रतेः कर्मप्रवचनीयसंज्ञाविधानसामथ्र्याद्ध्वितीयागर्भं वाक्यमेव स्यात्, न तु समासः, तस्य लेशार्थे सावकाशत्वादिति चेत्। मैवम्। `वृक्षं प्रति सिञ्चन्ती'त्यादौ षत्वनिवारकत्वेन कर्मप्रवचनीयसंज्ञाविधानस्य चरुतार्थत्वान्मात्रार्थग्रहणाऽभावे लक्षणादाबप्यनेन समासप्रसङ्गात्। वीप्सायामव्ययीभावे तु प्रत्यादेः पूर्वनिपातत्वे `प्रत्यर्थं सिञ्चन्ती'त्यादौ षत्वाऽप्रसक्त्या कर्मप्रवचनीयविधानस्याऽचरितार्थतया तत्सामथ्र्याद्द्वितीयागर्भं वाक्यमपीत्युक्तं मूलकृता `अव्ययं विभक्ती'ति सूत्रे। अत्र नव्याः–प्रत्यर्थमित्यव्ययीभावे वीप्सायां द्योतकत्वेन विद्यमानमव्ययं समस्यते। वीप्साद्योतकस्य यदि कर्म प्रवचनीयसंज्ञाविधिः स्वीक्रियते, तदापि प्रतिस्तवनं प्रतिस्थानमित्यादौ षत्वनिवारणाय प्रतीत्यस्य कर्मप्रवचनीयसंज्ञा चरितार्थैव। वस्तुतस्तु वीप्सायां विषयभूतायां प्रत्यादेः कर्मप्रवचनीयसंज्ञा, न तु वीप्साद्योतकस्यैव। अन्यथा `वृक्षं वृक्षं प्रति सिञ्चती'त्यत्र द्विर्वचनेनैव वीप्सा द्योत्यते। प्रतिशब्दस्तु क्रियाया संबध्यते। कर्मणि द्वितीया। कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात् षत्वं ने'त्यादिमनोरमाग्रन्थस्य `लक्षणेत्थंभूते'ति सूत्रस्थस्य दत्तजलाञ्जलिः स्यात्, ततश्च संज्ञाविधानसामथ्र्यास्योपक्षीणत्वात्, अर्थमर्थं प्रतीत्यादिभाष्यप्रयोगादेव द्वितीयागर्भं वाक्यमपि भवतीत्येवं व्याख्येयमित्याहुः। पराजयं द्योतयितुमाह— विपरीतं वृत्तमिति। पूर्वं जये यथा वृत्तं तथा न वृत्तमित्यर्थः। एकपरीति। एकंन विपरीतं वृत्तमित्यर्थः। एवं द्विपरीत्यादि। `विभाषाऽपपरिबहि'रिति योगं विभज्य व्याचष्टे।

Satishji's सूत्र-सूचिः

TBD.