Table of Contents

<<2-1-9 —- 2-1-11>>

2-1-10 अक्षशलाकासङ्ख्याः परिणा

प्रथमावृत्तिः

TBD.

काशिका

अक्षशब्दः, शलाकाशब्दः, सङ्ख्याशब्दश्च परिणा सह समस्यन्ते, अव्ययीभावश्च समासो भवति। कितवव्यवहारे समासो ऽयम् इष्यते। पञ्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर् वा भवति। तत्र यदा सर्वे उत्तानाः पतन्ति अवाञ्चो वा, तदा पात्यिता ज्यति, तस्य एव अस्य विपातो ऽन्यथा पाते सति जायते। अक्षेण इदं न तथा वृत्तं यथा पूर्वं जये अक्षपरि। शलाकापरि। एकपरि। द्विपरि। त्रिपरि। परमेण चतुष्परि। पञ्चसुत्वेकरूपासु जय एव भविष्यति। अक्षादयस् तृतीयान्ताः पूर्वोक्तस्य यथा न तत्। कितवव्यवहारे च एकत्वे ऽक्षशलाकयोः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

656 अक्षशलाका। `समस्यन्ते सोऽव्ययीभाव' इति शेषः। द्यूतव्यवहारे इति। वार्तिकमिदम्। [इद] द्यूतं तावत्पञ्चभिरक्षैः शलाकाभिर्वा भवति। यदि अक्षाः शलाका वा कत्स्ना उत्ताना अवाञ्चो वा पतन्ति, तदा पातयिता जयति। अन्यथा पराजयत इति स्थितिः। अक्षेणेति। कर्तरि तृतीया। `विपरीतं वृत्त'मित्यत्र वृत्तेर्भाव क्तः। `विपरीत'मिति क्रियाविशेषणम्। जये यथा परिवर्तितव्यं न तथा परिवृत्तमित्यर्थः। शलाकापरीति। शलाकया विपरीतं वृत्तमिति भावः। एकपरीति। एकेन विपरीतं वृत्तमित्यर्थः। एवं `द्विपरि' `त्रिपरी'त्यादि।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.