Table of Contents

<<2-1-7 —- 2-1-9>>

2-1-8 यावदवधारणे

प्रथमावृत्तिः

TBD.

काशिका

यावतित्येतदव्ययम् अवधारणे वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति। अवधारणम् इयत्तापरिद्धेदः। यावदमत्रं ब्राह्मणानामन्त्रयस्व। यावन्त्यमत्राणि सम्भवन्ति पञ्च षट् वा तावत आमन्त्रयस्व। अवधारणे इति किम्? यावदृत्तं तावद् भुक्तम्। न अवधारयामि कियन् मया भुक्तम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

654 यावदवधारणे। इयत्तापरिच्छेदे गम्ये यावदित्यव्ययं समस्यते, सोऽव्ययीभाव इत्यर्थः। यावन्त इति। यत्परिमाणं येषामिति विग्रहे`यत्तदेतेभ्यः परिमाणे वतु'बिति वतुप्प्रत्ययः। यावदित्यव्ययमेव समस्यते, विग्रहस्तु तद्धितान्तेनैव, नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात्। अवधारणे किम् ?। यावद्दत्तं तावद्भुक्तम्। इयद्भुक्तमिति नावधारयतीत्यर्थः।

तत्त्वबोधिनी

579 यावच्छ्लोकमिति।`याव'दित्यव्ययं समस्यते, विग्रहस्तु तद्धितान्तेनेत्यस्वपदविग्रहत्वमस्त्येव। अवधारणे किम्?। यावद्दत्तं तावद्भुक्तम्। [कियद्दत्त] कियद्भुक्तं वा नावधारयतीत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.