Table of Contents

<<2-1-69 —- 2-1-71>>

2-1-70 कुमारः श्रमणाऽअदिभिः

प्रथमावृत्तिः

TBD.

काशिका

कुमारशब्दः श्रमणाऽअदिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। ये ऽत्र स्त्रीलिङ्गाः पठ्यन्ते, श्रमणा, प्रव्रजिता, कुलटा इत्येवम् आदयः, तैः सह स्त्रीलिङ्गः एव कुमारशब्दः समस्यते। ये तु पुंलिङ्गाः, अध्यापकः, अभिरूपकः, पण्डितः इति, तैरुभयथा, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् इति। कुमारी श्रमणा कुमारश्रमणा। श्रमना। प्रव्रजिता। कुलटा। गर्भिणी। तापसी। दासी। बन्धकी। अध्यापक। अभिरूपक। पण्डित। पटु। मृदु। कुशल। चपल। निपुण।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

657 एतदेवेत्। एलकारः स्फुटसिद्धतच्वद्योतनार्थो, न त्ववधारणार्थः, `युवा खलती'ति सूत्रे जरतीग्रहणस्यापि ज्ञापकत्वसंभवात्। न हि युवन्शब्दस्य पुंस्त्वं जरतीसामानाधिकरण्यं सङ्गच्छते।

Satishji's सूत्र-सूचिः

TBD.