TBD.
वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्य्ते, तत्पुरुषश्च समासो भवति। कृष्णसारङ्गः। लोहितसारङ्गः। कृष्णशबलः। लोहितशबलः। अवयवद्वारेन कृष्णशब्दः समुदाये वर्तमानः समानाधिकरणो भवति।
TBD.
–
740 वर्णो शेषपूरणेन सूत्रं व्याचष्टे–समानाधिकरणेनेति। वर्णवाचिना समानाधिकरणेन वर्णवाची समस्यते स तत्पुरुष इत्यर्थः। कृष्णसारङ्ग इति। सारङ्गः-चित्रवर्णवान्। कृष्णशब्दः कृष्णावयवके लाक्षणिक इति सामानाधिकरण्यम्। कृष्णश्चासौ सारङ्गश्चेति विग्रहः। विशेषणसमासेन सिद्धे इदं प्रपञ्चार्थमेव। यत्तु `वर्णो वर्णेष्वनेते' इति स्वरविधौ प्रतिपदोक्तत्वादस्यैव ग्रहणार्थमिदम्। तेन सारङ्गस्यावयवः कृष्णः सारङ्गकृष्ण इत्यत्र `वर्णो वर्णेषु' इति स्वरो नेति, तच्चिन्त्यं, कर्मधारयस्वरप्रकरणे `वर्णो वर्णेष्वनेते' इति सूत्रस्य पाठेनैव सिद्धेरिति दिक्।
655 वर्णो। समानाधिकरणेन वर्णवाचिना वर्णवाचि समस्यत इत्यर्थः। `विशेषणं विशेष्येणे'त्यनेनैव सिद्धे पृथग्विधानं `वर्णो वर्णेष्वनेते'इति पूर्वपदप्रकृतिस्वरो विधीयमानः प्रतिपदोक्तत्वादेतत्समासपूर्वपदस्यैव भवतु नान्यस्येत्येतदर्थम्। कृष्णसारङ्ग इति। सारङ्गश्चित्रपर्यायः। स च गुणोपसर्जनद्रव्यपरः। कृष्णशब्दोऽपि कृष्णावयवके भाक्तः। एवं च गौणे सामानादिकरण्ये `विशेषणं विसेष्येणे'त्यप्रवुत्तौ समासार्थमपीदमारब्धव्यमित्याहुः। ननु `तृतीये'त्यनेनैवायं समासः सिध्यति, सारङ्गत्वस्य कृष्णादिकृतत्वात्। नापि स्वरे भेदः। `तत्पुरुषे तुल्यार्थ तृतीये'त्यनेनैव पूर्वपदप्रकृतिस्वरसिद्धेरिति चेदत्राहुः–`कृष्णशुक्लो हरितशुक्ल इत्याद्यर्थं समासोऽनेनाऽवश्यं विधेयः। नहीह तत्कृतत्वमस्ति। यद्यपीह `विशेषणं विशेष्येणे'त्यनेन समासः सिध्यति, तथापीष्टः स्वरो न सिध्यति। न चप्रतिपदोक्तसमासोऽकिञ्चित्करः, व्यावर्त्त्याऽलाबादिति वाच्यं, कृष्णशुक्लौ इत्यादेव्र्यावर्त्त्यस्य संभवा'दिति।
TBD.