Table of Contents

<<2-1-67 —- 2-1-69>>

2-1-68 कृत्यतुल्याऽख्या अजात्या

प्रथमावृत्तिः

TBD.

काशिका

कृत्यप्रत्ययान्तास् तुल्यपर्यायाश्च सुबन्ता अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति। भोज्योष्णम्। भोज्यलवणम्। पानीयशीतम्। तुल्याख्याः तुल्यश्वेतः। तुल्यमहान्। सदृशश्वेतः। सदृशमहान्। अजात्या ति किम्? भोज्य ओदनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

739 कृत्यतुल्याख्या। कृत्यप्रत्ययान्ताः , तुल्यवाचकाश्च जातिभिन्नवाचकेन समानाधिकरणेन समस्यन्ते स तत्पुरुष इत्यर्थः। भोज्योष्णमिति। भोज्यं च तदुष्णं चेति विग्रहः। `ऋहलोण्र्य'दिति ण्यत्। अर्हे। कृत्यप्रत्ययः। भोज्योष्णशब्दयोः क्रियागुणशब्दत्वाद्विशेषणत्वे कामचारादनियतपूर्वनिपाते प्राप्ते नियमार्थमिदम्। तुल्य\उfffदोत इति। तुल्यश्चासौ \उfffदोतश्चेति विग्रहः। उभयोर्गुणवचनतया विशेषणत्वाऽनियमेऽपि तुल्यशब्दस्यैव पूर्वनिपातः। आख्याग्रहणस्य प्रयोजनमाह– सदृश\उfffदोत इति। सदृशशब्दस्य तुल्यपर्यायत्वादिति भावः। भोज्य ओदन इति। अत्र ओदनशब्दस्य जातिवाचित्वात्तेनायं समासो न भवतीत्यर्थः। नन्वेतत्समासाऽभावेऽपि विशेषणसमासो दुर्वार इत्यत आह-प्रतिषेधेति। भोज्यशब्दपूर्वनिपातस्योभयत्राप्यविशिष्टतया `अजात्ये'ति पर्युदासवैयथ्र्यादिति भावः।

तत्त्वबोधिनी

654 कृत्यतुल्याख्या। `तुल्यमहान्'`सदृशमहा'नित्यादौ तु परत्वादनेन `सन्मह'दिति बाध्यते। `तस्य सत्कृत्यशालिनः'इति भट्टिप्रयोगे तु `सतां कृत्यं सत्कृत्य'मिति षष्ठीसमासो बोध्यः। एवं `परमपूज्यः'इत्यादिष्वपि।

Satishji's सूत्र-सूचिः

TBD.