Table of Contents

<<2-1-65 —- 2-1-67>>

2-1-66 प्रशंसावचनैश् च

प्रथमावृत्तिः

TBD.

काशिका

जातिः इति वर्तते। जातिवाचि सुबन्तं प्रशंसावचनैः सह समस्यते, तत्पुरुषश्च समासो भवति। रूढिशब्दाः प्रशंसावचना गृह्यन्ते मतल्लिकादयः। ते च आविष्टलिङ्गत्वादन्यलिङ्गे ऽपि जातिशब्दे स्वलिङ्गोपादाना एव समानाहिकरना भवन्ति। गोप्रकाण्डम्। अश्वप्रकाण्डम्। गोमत्ल्लिका। अश्वमतल्लिका। गोमचर्चिका। अश्वमचर्चिका। जातिः इति किम्? कुमारी मतल्लिका।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

737 प्रशंसावचनैश्च। एतैरिति। रूढ\उfffदा प्रशंसावाचकैरित्यर्थः। जातिरिति। `पोटायुवती'त्यतस्तदनुवृत्तेरिति भावः। प्राग्वदिति। समानाधिकरणैः समस्यते स तत्पुरुष इत्यर्थः। जातेः पूर्वंनिपातनियमार्थं सूत्रम्। गोमतल्लिकेति। मतल्लिका चासौ गौश्चेति विग्रहः। गोमचर्चिकेति। मचर्चिका चासौ गौश्चेति विग्रहः। गोप्रकाण्डमिति। प्रकाण्डं चासौ गौश्चेति विग्रहः। गवोद्ध इति। उद्धश्चासौ गोश्चेति विग्रहः। `अवङ् स्फोटायनस्य' `आद्गुणः'। गोतल्लज इति। तल्लजश्चासौ गौश्चेति विग्रहः। सर्वत्र परवल्लिङ्गता। मतल्लिकादिशब्दानमप्रसिद्धत्वाद्व्याचष्टे–प्रशस्ता गौरित्यर्थ इति। गोशब्दस्य स्त्रीलिङ्गत्वाभिप्रायात्प्रशस्तेति स्त्रीलिङ्गनिर्देशः। गोशब्दस्य पुंलिङगत्वे तु प्रशस्त इति पाठ\उfffद्म्। ननु गोशब्दस्य पुंलिङ्गत्वे मतल्लिकामचर्चिकाप्रकाण्डशब्दानामपि विशेष्यनिग्नत्वात्पुंलिङ्गतापत्तिः। गोशब्दस्य स्त्रीलिङ्गत्वे तु प्रकाण्डोद्धतल्लजानामपि स्त्रीलिङ्गतापत्तिश्चेत्यत आह–मतल्लिकादय इति। `मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ। प्रशस्तवाचकान्यमूनी'त्यमरः। कुमारी मतल्लिकेति। अवस्थाविशेषात्मकवयोविशेषवाचित्वान्न जातिवाची कुमारीशब्द इति न समासः। समासे तु `पुंवत्कर्मधारये'ति पुंवत्त्वं स्यादिति भावः।

तत्त्वबोधिनी

652 प्रशंसावचनैस्च। वचनग्रहणं रूढि शब्दपरिग्रहार्थम्। तेन ये यौगिकाः प्रशस्तशोभनरमणीयादयो, ये च विशेषवचनाः शुचिमृद्वादयो, ये तु गौण्यावृत्त्या प्रसंसां गमयन्ति–`सिंहो माणवकः'इत्यादयस्ते सर्वे व्युदस्यन्ते। गवोद्ध इति। `अवङ् स्फोटायनस्ये'त्यवङि `आद्गुणः'। `मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ। प्रशस्तवाचकान्यमूनि' इत्यमरः। `प्रशंसावचनपोटायुवती' त्येकयोगसंभवे पृथग्योगकरणं चिन्त्यफलम्।

Satishji's सूत्र-सूचिः

TBD.