TBD.
कतरकतमौ जातिपरिप्रश्ने वृतमानौ समर्थेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति। कतरकठः। कतरकालापः। कतमकठः। कतमकालापः। ननु कतमशब्दस्तावज् जातिपरिप्रश्न एव व्युत्पादितः, कतरशब्दो ऽपि साहचर्यात् तदर्थवृत्तिरेव ग्रहीष्यते, किं जातिपरिप्रश्नग्रहणेन? एवं तर्ह्येतज् ज्ञापयति कतमशब्दो ऽन्यत्र अपि वर्तते इति। तथा च प्रत्युदाहरनम् कतरो भवतोर् देवदत्तः, कतमो भवतां देवदत्तः।
TBD.
–
732 कतरकतमौ। जातिपरिप्रश्ने गम्ये कतरकतमो समानाधिकरणेन समस्येते इत्यर्थः। कतरकठ इति। अनयो कः कठ इत्यर्थः। `किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्'। कठेन प्रोक्तमधीते कठः। वैशम्पायनान्तेवासित्वात् प्रोक्ते णिनिः। `कठचरकाल्लु'गिति तस्य लुक्। ततः `तदधीते ' इत्यणः `प्रोक्ताल्लु'गिति लुक्। कतमकलाप इति। एषां कः कलाप इति विग्रहः कलापिना प्रोक्तमधीते कलापः। `कलापिनोऽण्'। `सब्राहृचारी'ति टिलोपः। `वा बहूनां जातिपरिप्रश्ने डतमच्'। ननु घटत्वादिवत्कठशाखाध्येतृत्वादिकं न जातिः, `आकृतिग्रहणा जातिः' इति लक्षणस्य `लिङ्गानां च न सर्वभाक्, सकृदाख्यातनिग्र्राह्रा' इति लक्षणमस्य च तत्राऽप्रवृत्तेरित्यत आह–गोत्रं चेति। अत्र कतमशब्दस्य जातिपरिप्रश्न एव व्युत्पादनातरार्थमेव जातिपरिप्रश्नग्रहणम्। एवंचाऽनयोः कतरो देवदत्त इत्यत्र न भवति समासः। `एषां कतमो देवदत्तः' इति तु नास्त्येव, जातिपरिप्रश्न एव डतमचो विधानात्। वस्तुतस्तु डतरतमविधौ द्वयोरिति बहूनामिति जातिपरिप्रश्ने इति प्रत्याख्यातं भाष्ये। एवंच `कतम एषां देवदत्त' इत्यप्यस्ति। तत्र समासाऽभावाय जातिपरिप्रश्नग्रहणमिति शब्देन्दुशेखरे स्थ#इतम्।
–
TBD.