Table of Contents

<<2-1-61 —- 2-1-63>>

2-1-62 वृन्दरकनागकुञ्जरैः पूज्यमानम्

प्रथमावृत्तिः

TBD.

काशिका

वृन्दारक नाग कुञ्जर इत्येतैः सह पूज्यमानवाचि सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति। पूज्यमानम् इति वचनात् पूजावचना वृन्दारकाऽदयो गृह्यन्ते। गोवृन्दारकः। अश्ववृन्दारकः। गोनागः। अश्वनागः। गोकुञ्जरः। अश्वकुञ्जरः। पूज्यमानम् इति किम्? सुषीमो नागः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

731 वृन्दारकनाग। `समानाधिकरणैः समस्यते' इति शेषः। विशेषणसमासेनैव सिद्धे विशेष्यस्य पूर्वनिपातनियमार्थं सूत्रम्। गोवृन्दारक इति। वृन्दारकशब्दो देवतावाची। `अमरा निर्जरा देवाः' इत्युपक्रम्यं, `वृन्दारका दैवतानी'त्यमरः। गौर्वृन्दारक इवेति विग्रहः। गौर्नाग इव गोनागः। गौः कुञ्जर इव गोकुञ्जरः। नागशब्दः कुञ्जरशब्दश्च गजवाची। अत्र गौर्वृन्दारादितुल्यत्वात् श्रैष्ठ\उfffद्ं गम्यत इति पूज्यमानता। ननु व्याघ्रादेराकृतिगणत्वात् `उपमितं व्याघ्रादिभि'रित्येव सिद्धे किमर्थमिदमित्यत आह–व्याघ्रादेरिति। सामान्येति। गोकुञ्जरः श्रेष्ठ इत्यादिविति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.