Table of Contents

<<2-1-58 —- 2-1-60>>

2-1-59 श्रेण्यादयः कृताऽदिभिः

प्रथमावृत्तिः

TBD.

काशिका

श्रेण्याऽदयः सुबन्ताः कृताऽदिभिः समानधिकरणैः सहः समस्यन्ते, तत्पुरुषश्च समासो भवति। श्रेण्यादिषु च्व्यर्थवचनम्। अश्रेणयः श्रेनयः कृताः श्रेणिकृताः। एककृताः। पूगकृताः। श्रेण्यादयः पठ्यन्ते। कृतादिराकृतिगनः। च्व्यन्तानां तु कुगतिप्राऽदयः 2-2-18 इत्यनेन नित्यसमासः। श्रेणीकृताः। श्रेणि। एक। पूग। कुण्ड। राशि। विशिख। निचय। निधान। इन्द्र। देव। मुण्ड। भूत। श्रवन। वदान्य। अध्यापक। अभिरूपक। ब्राह्मण। क्षत्रिय। पटु। पण्डित। कुशल। चपल। निपुण। कृपण। इति श्रेण्यादिः। कृत। मित। मत। भूत। उक्त। समाज्ञात। समाम्नात। समाख्यात। सम्भावित। अवधारित। निराकृत। अवकल्पित। उपकृत। उपाकृत। इति कृताऽदिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

728 श्रेण्यादयः। श्रेम्यादयः कृतादिभिः समानाधिकरणैः समस्यन्ते स तत्पुरुष इत्यर्थः। च्विप्रत्ययार्थेऽभूततद्भावे गम्ये श्रेण्यादीनां समासो वक्तव्य इत्यर्थः। अश्रेमय इति। शिल्पेन पण्येन वा जीविनां समूहाः-श्रेणयः। पूर्वं शिल्पेन पण्येन वा जीवितुमसमर्था इदानीं तेन जीवितुं समर्थाः कृता इत्यर्थे समासे सति `श्रेणिकृताः' इति भवतीत्यर्थः। श्रेणिशब्दो ह्यस्वान्तः, भाष्ये तथैवोदाहरणात्। यदा तु सिद्धा एव श्रेणयः परिष्कृतास्तदा तु न समासः, च्व्यर्थाऽभावात्। च्विप्रत्ययान्तस्य तु परत्वात् `कुगती'ति नित्यसमासः। ततः `च्वौ चे'ति श्रेणिशब्दस्य दीर्घः।

तत्त्वबोधिनी

647 श्रेण्यादयः। आद्य आदिशब्दो व्यवस्थावाची। द्वितीयस्तु प्रकारवाची। `श्रेण्यादयः पठ\उfffद्न्ते, कृतादिराकृतिगणः'इति भाष्यात्। श्रेणी, एक, पूग, कुन्द, शशि, विशिख, निचय, निधनादिः–श्रेण्यादिः। कृत, मित, भूतादिः। इत्याशयेनाह–अश्रेणयः श्रेणय इथि। एकेन शिल्पेन पण्येन वा ये जीवन्ति तेषां समूहः–श्रेणिः। च्व्यन्तानां तु `कुगती'ति नित्यसमासः,परत्वात्। श्रेणीकृतम्। इह तु `च्वौ चे'ति दीर्घः। (646) क्तेन नञ्विशिष्टेनाऽनञ्।2।1।60। विशिष्टशब्दोऽवधारणार्थः। नञ्मात्राधिकेन नञ्रहितं समस्यत इति सूत्रार्थः। तेनेह न—सिद्धं चाऽभिक्तं च। `नुडिडधिकेनापी'ति वाच्यम्। अशितं चानशितं च अशितानशितम्। क्लिष्टाऽक्लिशितम्। `क्लिशः क्त्वानिष्ठयोः' इति वेट्। कृताकृतमिति। एकदेशान्तरस्याऽकरणात्तदेवाऽकृतम्। उत्तरपदलोपस्योपसङ्ख्यानम्। शाकपार्थिव इति। पृथिव्या ई\उfffदारः पार्थिवः। `तस्ये\उfffदारः'इत्यण्। `शाकप्रिय'इति बहुव्रीहिः, तस्य पार्थिवशब्देन समासे कृते पूर्व समासे यदुत्तरपदं प्रिय इथि, तस्य लोपः। तथा `दवेब्राआहृण' इत्यत्र देवस्य पूजको देवपूजक इति पूर्वस्मिन् षष्ठी समासे यदुत्तरपदं पूजक इति, तस्य लोपो ज्ञेयः।

Satishji's सूत्र-सूचिः

TBD.