Table of Contents

<<2-1-59 —- 2-1-61>>

2-1-60 क्तेन नञ्विशिष्टेन अनञ्

प्रथमावृत्तिः

TBD.

काशिका

नञैव विशेषो यस्य, सर्वमन्यत् प्रकृत्यादिकं तुल्यं, तन् नञ्विशिष्टम्, तेन नञ्विशिष्टेन क्तान्तेन समानाधिकरणेन सह अनञ् क्तान्तं समस्यते, तत्पुरुषश्च समासो भवति। कृतं च तदकृतं च कृताकृतम्। भुक्ताभुक्तम्। पीतापीतम्। उदतानुदितम्। नुडिटौ तद्भक्तत्वान्नैव भेदकौ। अशितानशितेन जीवति। क्लिष्टाक्लिशितेन वर्तते। कृतापकृतादीनाम् उपसङ्ह्यानम्। कृतापकृतम्। भुक्तविभुक्तम्। पीतविपीतम्। गतप्रत्यागतम्। यातानुयातम्। क्रयाक्रयिका। पुटापुटिका। फलाफलिका। मानोन्मानिका। समानाधिकरणाधिकारे शाकपार्थिवादीनाम् उपसङ्ख्यानम् उत्तरपदलोपश्च। शाकप्रधानः पार्थिवः शाकपार्थिवः। कुतपसौश्रुतः। अजातौल्वलिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

729 क्तेन नञ्विशिष्टेनानञ्। नञ्विशिष्टेन क्तान्तेन समानाधिकरणेन सह नञ्रहितं क्तान्तं समस्यते, तत्पुरुष इत्यर्थः। कृतं च तदिति। एकदेशस्य करणात्कृतम्, एकदेशान्तरस्याऽकरणात्तदेवाऽकृतम्। पूर्वनिपातनियमार्थम्। सिद्धं च तदभुक्तं चेत्यत्र तु नायं समासः, विशिष्टशब्दो ह्रत्राधिकवाची। यथा `देवदत्ताद्यज्ञदत्तः स्वाध्यायेन विशिष्ट' इत्युक्ते अधिक इति गम्यते। नञैव विशिष्टं। नञ्मात्राधिकेन क्तान्तेनेति लभ्यते। एवंच समानप्रकृतिकत्वं क्तान्तयोः पर्यवसन्नमिति बोध्यम्।

शाकपार्थिव इति। शाकः प्रियो यस्य स शाकप्रियः। `वा प्रियस्ये'ति प्रियशब्दस्य परनिपातः शाकप्रियश्चासौ पार्थिवश्चेति विग्रहे बहुव्रीहिगर्भो विशेषणसमासः। तत्र पूर्वखण्डे बहुव्रीहौ उत्तरपदस्य प्रियशब्दस्य लोपः। देवब्राआहृण इति। देवाः प्रिया यस्य स देवप्रियः, स चासौ ब्राआहृणश्चेति विग्रहः। पूर्ववदुत्तरपदलोपः। देवपूजको ब्राआहृण इति वा विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.