Table of Contents

<<2-1-55 —- 2-1-57>>

2-1-56 उपमितं व्याघ्राऽदिभिः सामान्याप्रयोगे

प्रथमावृत्तिः

TBD.

काशिका

उपमेयम् उपमितं , तद्वाचि सुबन्तं व्याघ्राऽदिभिः सामर्थ्यादुपमानवचनैः सह सामस्यते, तत्पुरुषश्च समासो भवति, न चेत् सामान्यवाची शब्दः प्रयुज्यते। विशेषणं विशेष्येण बहुलम् 2-1-57 इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातार्थ आरम्भः। पुरुषो ऽयं व्याघ्र इव पुरुषव्याघ्रः। पुरुषसिंहः। सामान्याप्रयोगे इति इम्? पुरुषो ऽयं व्याघ्र इव शूरः। व्याघ्र। सिंह। ऋक्ष। ऋषभ। चन्दन। वृक्ष। वराह। वृष। हस्तिन्। कुञ्जर। रुरु। पृषत। पुण्डरीक। बलाहक। अकृतिगनश्च अयम्, तेन इदम् अपि भवति मुखपद्मम्, मुखकमलम्, करकिसलयम्, पार्थिवचन्द्रः इत्येवम् आदि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

725 उपमितम्। प्राग्वदिति। समानाधिकरणैः समस्यते स तत्पुरुष इत्यर्थः। अत्रोपमितस्य नित्यमुपमानाकाङ्क्षत्वादुपमानभूतव्याघ्रादिभिरित्यर्थसिद्धम्। ननु विशेषणसमासेनैव सिद्धे किमर्थमिदं सूत्रमित्यत आह-विशेष्यस्येति। उपमानोपमेयसमभिव्याहारे उपमानस्यैव विशेषणत्वात्पूर्वनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातनार्थमिदमित्यर्थः। पुरुषव्याघ्र इति। पुरुषो व्याघ्र इवेति विग्रहः। अत्र सादृश्योपपादकः शौर्यात्मकः साधारणधर्मः, स इह नोपात्त इति भवति समासः। पुरुषोव्याघ्र इव शूर इति। शौर्येण व्याघ्रसदृश इति यावत्। अत्र शौर्यस्योपमानोपमेयसाधारणधर्मस्य प्रयोगान्न समास इति भावः। `भाष्याब्धिः क्वातिगम्भीरः' इति कैयटप्रयोगस्तु मयूरव्यंसकादित्वात्समाधेयः। बाष्यमेवाब्धिरिति रूपकं वा। न च पुरुषशब्दस्य शूरशब्दसापेक्षत्वादसामथ्र्यादेवात्र समासस्य न प्रवृत्तिः, अतः `सामान्याऽप्रयोगे' इति व्यर्थमिति वाच्यं, समस्यमानेष्वप्रधानस्यैव हि सापेक्षत्वं सामथ्र्यविघातकं न तु प्रधानस्य। तथाचाऽत्र पुरुषस्य प्रधानतया तस्य शूरापेक्षत्वेऽपि अस्त्येव सामथ्र्यमिति समासप्रवृत्तेः, तन्निवृत्त्यर्थं सामान्याऽप्रयोग इति वचनम्। इदमेव `प्रधानस्य सापेक्षत्वेऽपि न सामथ्र्यविघातकत्व'मिति ज्ञापयति। तेन `राजपुरुषः सुन्दर' इत्यादौ समासः सिद्धो भवतीति भाष्ये स्पष्टम्।

तत्त्वबोधिनी

643 उपमितम्। उपमेयमुपमितम्। भूतकालोऽत्र न विवक्षितः। तच्च संबन्धिशब्दादुपमानमाक्षिपति। तथा चोपमानभूतैव्र्याघ्रादिभिरित्यर्थः। पुरुषो व्याघ्रा इव शूर इति। तत्र हि शूरसापेक्षस्यापि पुरुषस्य प्रधानत्वात् `राजपुरषः सुन्दरः'इतिवदत्रापि समासः स्यात्स मा भूदिति `सामान्याऽप्रयोगे'इत्युक्तमिति भावः। कथं तर्हि `भाष्याब्धिः क्वातिगम्भीरः' इति कैयटः, सामान्यप्रयोदसत्त्वेनाऽस्याऽप्राप्तेः। अत्र केचित्–प्रमाद एवायमित्याहुः। इह गम्भीर्येण सादृश्यं न विवक्षितं, किंतु विततदुरवगाहत्वादिना। तस्य हि विततत्वादेरप्रयोगोऽस्त्येवेति निर्बाधः समास इति मनोरमायां स्थितम्।

Satishji's सूत्र-सूचिः

TBD.