Table of Contents

<<2-1-54 —- 2-1-56>>

2-1-55 उपमानानि सामान्यवचनैः

प्रथमावृत्तिः

TBD.

काशिका

उपमीयते ऽनेन इत्युपमानम्। उपमानवाचीनि सुबन्तानि सामान्यवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। उपमानौपमेययोः साधारणे धर्मः सामान्यं, तद्विशिष्टौपमेयवचनैरयं समासः। शस्त्रीव श्यामा शस्त्रीश्यामा देवदत्ता। कुमुदश्येनी। हंसगद्गदा। न्यग्रोधपरिमण्डला। उपमानानि इति किम्? देवदत्ता शयामा। सामान्यवचनैः इति किम्? फाला इव तण्डुलाः। पर्वता इव बलाहकाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

948 घन इव श्यामो घनश्यामः. (शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्). शाकप्रियः पार्थिवः शाकपार्थिवः. देवपूजको ब्राह्मणो देवब्राह्मणः..

बालमनोरमा

724 उपमानानि। उपमीयन्ते सदृशतया परिच्छिद्यन्ते यैस्तानि–उपमानानि। सादृश्यनिरूपकाणीत्यर्थः। सामान्यम्=उपमानोपमेयसाधारणधर्मः, तमुक्तवन्तः शब्दाः सामान्यवचनाः। बाहुलकः कर्तरि ल्युट्। पूर्वं सामान्यमुक्त्वा तद्विति द्रव्ये ये पर्यवस्यन्ति ते सामान्यवचना इति यावत्। तथाच सादृश्यनिरूपकशब्दाऽपरपर्याया उपमानशब्दा उपमानोपमेयसाधारणधर्मविशिष्टवाचिभिः समानाधिकरणैः समस्यन्ते स तत्पुरुष इत्यर्थः। घनश्याम इति। नन्विह घन इव श्याम इति विग्रहे घनशब्दस्य श्यामशब्दस्य चैकार्थवृत्तित्वलक्षणसामानाधिकरण्याऽभावात्कथमिह समासः, इवशब्दापेक्षत्वेनाऽसामथ्र्याच्चेत्यत आह–इह पूर्वपदमिति। एवं च घनशब्दो लक्षणया घनसदृशे रामे वर्तते, श्यामशब्दोऽपि रामे वर्तत इति सामानाधिकरण्यम्। अत एव मृगीव चपला मृगचपलेत्यत्र `पुंवत्कर्मधारये'ति पुंवत्त्वं सिध्यति। घनशब्दस्य भूतपूर्वगत्योपमानपरत्वं निर्वाह्रम्। तथाच `घनसदृशश्यामः' इति बोधः। सादृश्यं तद्भिन्नत्वे सति तद्गतधर्मवत्त्वम्। एवंच सादृश्यप्रतियोग्यनुयोगिनोः साधारणधर्मवत्त्वं लब्धम्। स चेह साधारणधर्म उत्तरपदोपस्थाप्य एव गृह्रते, संनिहितत्वात्। तथाच घनगतश्यामत्वसदृशश्यामत्ववानिति बोधपर्यवसानम्। ननु विशेषणसमासेन सिद्धे किमर्थमिदं सूत्रमित्यत आह–पूर्वनिपातेति। अन्यथा उभयोरपि गुणवचनतया विशेषणविशेष्यभावे कामचारात्खञ्जकुब्जः कुब्जखञ्ज इतिवदनियमः स्यादिति भावः।

तत्त्वबोधिनी

642 उपमानानि। उपमीयते येन तदुपमानम्। उपपूर्वान्माङः कतरणे ल्युट्। प्रादिसमासः उपपूर्वको माङ् सादृश्यहेतुके परिच्छेदे रूढः। येन वस्त्वन्तरं सादृश्येन परिच्छिद्यते तदुपमानमित्यर्थः। यथा `गौरिव गवयः'। इह हि गौः करणं, सादृश्यं हेतुः, पुरुषः परिच्छेत्ता। स हि गोसादृश्येन गवयं परिच्छिनत्ति। सामान्यवचनैरिति। समानो धर्मः–सामान्यम्। चातुर्वण्र्यादित्वात्स्वार्थे ष्यञ्। उपमानोपमेयसाधारणो यो धर्मस्तद्विशिष्टवचनैरित्यर्थः, न तु साधारणधर्ममात्रवचनैरिति। एतच्च वचनग्रहणाल्लभ्यते। सामान्यमुक्तवन्तः–सामान्यवचनाः। बाहुलकात्कर्तरि भूते ल्युट्। ये पूर्वं सामान्यमुक्त्वा तद्वति द्रव्ये पर्यवस्यन्ति ते तथोक्ताः। तच्च सामान्यविशिष्टमुपमानशब्दस्य संबन्धिशब्दत्वादाक्षिप्तमुपमेयमेव विज्ञायते। लाक्षणिकमिति। अतएव सामानाधिकरण्यान्मृगीव चपला मृगचपलेत्यादौ पुंवद्भावः। उत्तरपदोपस्थितश्यामत्वचरलत्वादिद्वारकमेवेह सादृश्यं गृह्रते, संनिधानात्। कथं तर्हि उपमानपरतेति चेत्। भूतपूर्वगत्या शक्यार्थमादाय तत्परतेत्यवेहि। पूर्वनिपातेति। अन्यथाऽनियमः स्यात्, खञ्ज कुब्जवदिति भावः। किंच `तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानव्यय#ए'ति सूत्रे प्रतिपदोक्तस्यास्यैवोपमानग्रहणेन ग्रहणार्थमपीदं सूत्रम्। अतएव मयूरव्यंसकादित्वात्समासे न प्रवर्तत इति सिद्धान्तः।

Satishji's सूत्र-सूचिः

TBD.