Table of Contents

<<2-1-43 —- 2-1-45>>

2-1-44 संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

संज्ञायां विषये सप्तयन्तं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति। संज्ञा समुदायोपाधिः। तेन नित्यसमास एव अयम्, न हि वाक्येन संज्ञा गम्यते। अरण्येतिलकाः। अरण्येमाषाः। वनेकिंशुकाः। वने बिल्वकाः। कूपेपिशाचकाः। हलदन्तात् सप्तम्याः संज्ञायाम् 6-3-9 इत्यलुक्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

712 संज्ञायाम्। `सप्तमी'त्यनुवर्तते। तदाह–सप्तम्यन्तमित्यादि। `अरण्येतिलका' इति `वनेकशेरुका' इति च संज्ञाशब्दौ। `हलदन्तात्सप्तम्याः' इत्यलुक्। क्तेनेति तदन्तग्रहणं। तदाह–अह्नो रात्रेश्चेति। अहरवयवस्योदाहरति– पूर्वाह्णकृतमिति। रात्र्यवयवस्योदाहरति–अपररात्रकृतमिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.