Table of Contents

<<2-1-38 —- 2-1-40>>

2-1-39 स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन

प्रथमावृत्तिः

TBD.

काशिका

स्तोक अन्तिक दूर इत्येवम् अर्थाः शब्दाः कृच्छ्रशब्दश्च पञ्चम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति। स्तोकान् मुक्तः। अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। विप्रकृष्टादागतः। कृच्छ्रान् मुक्तः। कृच्छ्राल् लब्धः। पञ्चम्याः स्तोकाऽदिभ्यः 6-3-2 इत्यलुक्। शतसहत्रौ परेणेति वक्तव्यम्। शतात् परे परश्शताः। सहस्रात् परे परस्सहस्राः। राजदन्तादित्वात् परनिपातः। निपातनात् सुडागमः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

932

बालमनोरमा

692 स्तोकान्तिक। स्तोक-अन्तिक-दूर-एतदर्थकानि, कृच्छ्र एतानि पञ्चम्यन्तानि क्तप्रत्ययान्तेन समस्यन्त इत्यर्थः। अर्थग्रहणं स्तोकान्तिकदूरेषु संबध्यते। अल्पान्मुक्त इति। स्तोकपर्यायस्योदाहरणम्। अभ्याशादागत इति। अन्तिकपर्यायस्योदाहरणम्। विप्रकृष्टादागत इति। दूरशब्दपर्याय उदाहार्यः। `करणे च स्तोके'ति पञ्चमी। `दूरादागत' इत्यत्र तु `दूरान्तिकार्थेभ्यः' इति पञ्चमी। अत्र `सुपो धात्वि'ति लुकमाशङ्क्याह–पञ्चम्याः स्तोकादिभ्य इत्यलुगिति।

तत्त्वबोधिनी

614 स्तोकान्मुक्त इत्यादि। `करणे च स्तोकाल्पे'ति पञ्चमी। `दूरादागत' इत्यादौ तु `दूरान्तिकार्थेभ्यः'इत्यनेन।

Satishji's सूत्र-सूचिः

TBD.