Table of Contents

<<2-1-34 —- 2-1-36>>

2-1-35 भक्ष्येण मिश्रीकरनम्

प्रथमावृत्तिः

TBD.

काशिका

मिश्रीकरनवाचि तृतीयान्तम् भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। खरविशदमभ्यवहार्यं भक्ष्यं, तस्य संस्कारकं मिश्रीकरणम्। हुडेन मिश्राः धानाः गुडधानाः। गुडपृथुकाः। वृत्तौ क्रियाया अन्तर्भावात् पूर्वोत्तरपदयोः सामर्थ्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

689 भक्ष्येण। मिश्रीक्रियते खाद्यं द्रव्यमनेनेति मिश्रीकरणं-गुडादि। तद्वाचकं तृतीयान्तं भक्ष्यवाचकेन समस्यत इत्यर्थः। कठिन द्रव्य-खाद्यम्। पृथुकादि भक्ष्यं विवक्षितम्। गुडधाना इति। `धाना भृष्टयवे स्त्रियः' इत्यमरः। गुडेन मिश्रा धाना इत्यर्थः। ननु गुडकरणत्वस्य मिश्रपदाऽपेक्षत्वान्न सामथ्र्यमित्यत आह–मिश्रेणेति। गुडेनेत्यस्य गुडकरणकमिश्रणे वृत्तेर्नाऽसामथ्र्यमिति भावः। प्रत्ययग्रहणपरिभाषया चतुर्थीत्यनेन चतुथ्र्यन्तं गृह्रते। तदर्थ- अर्थ-बलि-हित- सुख-रक्षित-एषां द्वन्द्वः। चतुथ्र्यन्तम् एतैः षड्भिः समस्यते, स तत्पुरुष इति फलितम्। तदर्थेत्यत्र तच्छब्देन चतुथ्र्यन्तार्थो विवक्षितः। तस्मै चतुथ्र्यन्तार्थाय इदं तदर्थम्। `अर्थेन नित्यसमासः' इति वक्ष्यमाणः समासः। चतुथ्र्यन्तवाच्यप्रयोजनकं यत्तत्तदर्थमिति पर्यवस्यति। तदाह– चतुथ्र्यन्तार्थायेत्यादिना। तदर्थेनेति। तदर्थेन समास इति यदुक्तं तत्प्रकृतिविकृतिभाव एव भवति, न त्वन्यत्रेत्यर्थः। कुत इत्यत आह–बलिरक्षितेति। यदि तादथ्र्यमात्रेऽयं समासः स्यात्प्रकृतिविकृतिभाव एवेति नोच्येत, तर्हि बलिरक्षितग्रहणं व्यर्थं स्यात्। भूतेभ्यो बलिः, गोभ्यो रक्षितं तृममित्यत्रापि बलेर्भूतार्थतया, रक्षिततृणस्य गवार्थतया च तदर्थेत्येव समाससिद्धेरिति भावः। यूपायेति। अत्र चुत्रथ्यन्तवाच्ययूपार्थं दारु, अतो दारुशब्देन यूपायेत्यस्य समासः, यूपस्य दारुविकृतित्वाच्च, तक्षादिना अष्टाश्रीकृतवृक्षस्यैव यूपशब्दार्थत्वात्। अथ प्रकृतिविकृतिभावग्रहणस्य प्रयोजनमाह–नेहेति। रन्धनायेति। पाकायेत्यर्थः। `रध हिंसायाम्'। इह पाको विवक्षितः। भावे ल्युट्, अनादेशः। `रधिभजोरची'ति नुम्। स्थाल्याश्चतुथ्र्यन्तवाच्यपाकार्थत्वेऽपि प्रकृतिविकृतिभावविरहान्न समासः। नन्व\उfffदोभ्यो घासः अ\उfffदाघासः, धर्माय नियमो धर्मनियम इत्यादौ कथं तदर्थेन समासः, प्रकृतिविकृतिभावविरहादित्यत आह– अ\उfffदाघासादयस्त्विति। न चैवं `रन्धनायस्थाली'त्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृतिविकृतिभावनियमो व्यर्थ इति वाच्यं, शाब्दबोधे सम्बन्धत्वतादथ्र्यन्तवकृतवैलक्षण्येन उक्तनियमसाफल्यात्। एवञ्च `रन्धनस्य स्थाली'ति सम्बन्धत्वेन भाने षष्ठीसमास इष्ट एव। तादथ्र्यत्वेन भाने चतुर्थीसमासवारणाय तु प्रकृतिविकृतिभावनियमाश्रयणमित्यास्तां तावत्। तदेवं तदर्थेत्यंशः प्रपञ्चितः। \र्\नथेदानीमर्थशब्देन चतुथ्र्यन्तस्य समासे विशेषमाह– अर्थेनेति। अर्थशब्देन चतुथ्र्यन्तस्य नित्यसमास इति वक्तव्यम्। अन्यथा विभाषाधिकाराद्विकल्पः स्यात्। विशेष्यस्य प्रधानस्य यल्लिङ्गं तल्लिङ्गमित्यपि वक्तव्यम्। अन्यथा अर्थशब्दस्य नित्यं पुँल्लिङ्गत्वात् `परवल्लिङ्ग'मिति सर्वत्र पुँल्लिङ्गतैव स्यादित्यर्थः। अर्थशब्दोऽत्र वस्तुपरः। `अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः। इहोपकारकं वस्तु विवक्षितमित्यभिप्रेत्योदाहरति–द्विजार्थ इति। तत्र द्विजायाऽयमित्यस्वपदविग्रहः। तत्रा।ञर्थशब्दस्थानेऽयमिति शब्दः, नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात्। द्विजायेति तादथ्र्यचतुर्थी। तदन्तस्याऽर्थशब्देन समासो विशेष्यसूपशब्दस्य पुँल्लिङ्गत्वात्समासस्य पुँल्लिङ्गता च। द्विजस्यो कारकः सूप इत्यर्थः। द्विजार्थेति। द्विजायेयमिति विग्रहः। अर्थशब्दस्य नित्यपुँल्लिङ्गत्वेऽपि `परवल्लिङ्ग'मिति पुँल्लिङ्गं बाधित्वाऽनेन विशेष्यलिङ्गानुसारेण स्त्रीलिङ्गता। द्विजार्थं पय इति। द्विजायेदमिति विग्रहः। अत्र विशेष्यलिङ्गानुसारान्नपुंसकत्वम्। भाष्ये तु चतुर्थ्यैव तादथ्र्यस्योक्तत्वात् `उक्तार्थानामप्रयोगः' इति न्यायेनाऽर्थशब्देन विग्रहाऽप्रसक्तेर्नित्यसमासत्वं न्यायसिद्धमेव। `गुरोरिदं गुर्वर्थ'मित्यादाविव लिङ्गमपि लोकत एव सिद्धमिति वार्तिकमिदं प्रत्याख्यातम्। भूतबलिरिति। भूतेभ्यो बलिरिति विग्रहः। तादथ्र्यचतुथ्र्यन्तस्य बलिशब्देन समासः। गोहितमिति। गोभ्यो हितमिति। विग्रहः। गवामनुकूलमित्यर्थः। `हितयोगे चे'ति शेषषष्ठ\उfffद्पवादश्चतुर्थी'। तदन्तस्य हितशब्देन समासः। गोरक्षितमिति। `तृणादिक'मिति शेषः। गोभ्यो रक्षितमिति विग्रहः। तादथ्र्यचतुथ्र्यन्तस्य रक्षितशब्देन समासः।

तत्त्वबोधिनी

610 भक्ष्येण। खरं विशदमभ्यवहार्यं भक्ष्यम्। खरं =कठिनं विशदं=विविक्तावयवं खाद्यं भक्ष्यमित्यर्थः। यत्प्रत्ययान्तस्य एरन्तस्य च भक्षयतेस्तत्रैव प्रयोगात्। `अब्भक्ष' इत्यादिप्रयोगस्तु भक्ताः। गुडधाना इति। ननु धानानां प्रत्येकं विविभक्तावयवत्वाऽभावात्कथमेतदुदाहरणं सङ्गच्छत इति चेत्। मैवम्। भृष्टयवसमुदायस्य धानात्वात्समुदायं प्रति समुदायिनामवयवत्वाच्च तदुपपत्तेः।

Satishji's सूत्र-सूचिः

TBD.