Table of Contents

<<2-1-33 —- 2-1-35>>

2-1-34 अन्नेन व्यञ्जनम्

प्रथमावृत्तिः

TBD.

काशिका

तृतीया इति वर्तते। व्यंज्ञवाचि तृतीयान्तम् अनवाचिना सुबन्तेन सहा समस्यते, विभाशा तत्पुरुषश्च समासो भवति। संस्कार्यम् अन्नं, संस्कारकं व्यञ्जनम्। दध्ना उपसिक्त ओदनः दध्योदनः। क्षीरौदनः। वृत्तौ क्रियाया अन्तर्भावादन्नव्यञ्जनयोः सामर्थ्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

687 अन्ने व्यञ्जनम्। व्यञ्जनशब्दं व्याचष्टे–संस्कारेति। संस्क्रियते गुणविशेषवतया क्रियते अनेनेति संस्कारः=उपसेकादिसाधनं दद्यादि, त्दावचकमित्यर्थः। अन्ननेति। अन्नम्-ओदनः। तद्वाचकशब्देनेत्यर्थः। `भिस्सा स्त्री भक्तमन्धोऽन्न'मिति कोशः। दध्योदन इति। नन्विह दध्नेति करणत्वस्योपसिक्तपदापेक्षत्वादसामथ्र्यात्कथमिह समास इत्यत आह–अन्तर्भूतेति। उपसेकक्रियां विना दध्नोऽन्नसंस्कारकत्वानुपपत्त्या दध्नेत्यस्य दधिकरणकोपसेके वृत्तेर्नाऽसामथ्र्यामिति भावः। तदुक्तं भाष्ये– `युक्तार्थसंप्रत्ययाच्च सामथ्र्य'मिति।

तत्त्वबोधिनी

609 अन्नेन। `भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री' इत्यमरः। व्याख्यानान्नेह स्वरूपग्रहणं, तदाह–संस्कारकेत्यादि।

Satishji's सूत्र-सूचिः

TBD.