Table of Contents

<<2-1-32 —- 2-1-34>>

2-1-33 कृत्यैरधिकाऽर्थवचने

प्रथमावृत्तिः

TBD.

काशिका

स्तुतिनिन्दाप्रयुक्तम् अध्यारोपितार्थवचनम् अधिकार्थवचनम्। कर्तृकरणयो या तृतीया तदन्तं सुबन्तं कृतैः सह समस्यते ऽधिकार्थवचने गम्यमाने विभाषा, तत्पुरुषश्च समासो भवति। कर्ता काकपेया नदी। श्वलेह्यः कूपः। करणम् बाष्पच्छेद्यानि तृणानि। क्ण्टकसञ्चेय ओदनः। पूर्वस्या एव अयं प्रपञ्चः। कृत्यग्रहणे यण्ण्यतोर्ग्रहनं कर्तव्यम्। इह मा भूत्, काकैः पातव्या इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

686 कृत्यैरधिकार्थवचने। अर्थवादवचनमिति। असदुक्तरित्यर्थः। वातच्छेद्यमिति। वातेन च्छेद्यमिति विग्रहः। छेत्तुं योग्यमित्यर्थः। `ऋहलोण्र्य'दिति कृत्यप्रत्ययः। कोमलत्वेन स्तुतिः, दुर्वलत्वेन निन्दा वा। काकपेयेति। `अचो य'दिति यत्। `ईद्यती'ति गुणः। अत्र पूर्णाम्भस्त्वेन स्तुतिः, अल्पाम्भस्त्वेन निन्दा वा।

तत्त्वबोधिनी

608 कृत्यैरधिकार्थ। पूर्वसूत्रस्यैव प्रपञ्चोऽयं न तु नियमार्थमित्याहुः। वातच्छेद्येमिति। पूर्वत्कृत्यः। कोमलत्वाद्वातेनापि छेत्तु शक्यत इति स्तुतिः, वातेनापि छेत्तुं शक्यते निर्बलत्वादिति निन्दा वा। काकपेयेति। `शकि लिङ् चे'ति शक्यार्थे कृत्यः। पूर्णतोयत्वात्तटस्थैः काकैरपि पातुं शक्येति स्तुतिः, अल्पतोयत्वेन निन्दा वा।

Satishji's सूत्र-सूचिः

TBD.