Table of Contents

<<2-1-26 —- 2-1-28>>

2-1-27 सामि

प्रथमावृत्तिः

TBD.

काशिका

सामि इत्येतदव्ययम् अर्धशब्दपर्यायः, तस्य असत्त्ववाचित्वाद् द्वितीयया न अस्ति सम्बन्धः। तत् सुबन्तं क्तन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। सामिकृतम्। सामिपीतम्। समिभुक्तम्। ऐकपद्यमैकस्वर्यं च समासत्वद् भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

680 सामि। `सामी'त्यव्ययमर्धे वर्तते। तत्-क्तान्तप्रकृतिकसुबन्तेन समस्यत इत्यर्थः। सामिकृतमिति। समासाऽभावे तु तद्धितवृत्तौ `सामिकार्ति'रिति स्यादिति भावः।

तत्त्वबोधिनी

602 सामि। सामीत्येतदव्ययमर्धशब्दपर्यायः।

Satishji's सूत्र-सूचिः

TBD.