TBD.
खट्वाशब्दो द्वितीयान्तः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति। क्षेपो निन्दा, स च समासार्थ एव, तेन विभाषा ऽधिकारे ऽपि नित्यसमास एव अयम्। न हि वक्येन क्षेपो गम्यते। खट्वारोहणं च इह विमार्गप्रस्थानस्य उपलक्षनम्। सर्व एव अविनीतः खट्वारूढः इत्युच्यते। खट्वारुढो जाल्मः। खट्वाप्लुतः। अपथप्रस्थितः इत्यर्थः। क्षेपे इति किम्? खट्वामारूढः।
TBD.
–
679 खट्वा क्षेपे। क्तेनेत्यनुवर्तते। प्रत्ययग्रहणात्तदन्तविधिः। क्षेपो निन्दा। द्वितीयेति सुपेति चानुवर्तते। तदुभयमपि प्रत्ययग्रहणपरिभाषया तदन्तपरं सत्प्रकृतिप्रत्ययसमुदायपरम्। खट्वाशब्दस्य क्तान्तशब्दस्य च सुब्घटितसमुदायात्मकत्वाऽसंभवादत्र खट्वाशब्दः क्तप्रत्ययान्तशब्दश्च तत्प्रकृतिके लाक्षणिक इत्याह-खट्वाप्रकृतिकमिति। खट्वारूढौ जाल्म इति। `जाल्मोऽसमीक्ष्यकारी'त्यमरः। खट्वा अम्-आरूढ स् इत्यलौकिकविग्रहः। लौकिकविग्रहस्तु नास्तीत्याह-नित्यसमासोऽयमिति। तत्कुत इत्य आह–न हि वाक्येनेति। वृत्त्यर्थबोधकं वाक्यं-लौकिकविग्रहः। तत्र खट्वामारूढ इति वाक्यं हि गृहस्थाश्रमिणि निन्दां न गमयति। `खट्वा रूढ' इति समासस्तु रूढ\उfffदा निन्दां गमयति। तथाच भाष्यम्–`अधीत्य रुआआत्वा गुर्वनुज्ञातेन खट्वा आरोढव्या। यस्तावदन्यथा करोति स `खट्वारूढोऽयं जाल्म'इत्युच्यते' इति। अत्र `जाल्य' इत्यनेनोद्वृत्तेऽयं शब्दो रूढः अवयवार्थे तु नाभिनिवेष्टव्यमिति सूचितम्।
601 खट्वारूढ इति। `जाल्मोऽसमीक्ष्यकारी स्यात्' इत्यमरः। वेदं व्रतानि च समाप्य समावृत्तेन हि खट्वारोढव्या। ब्राहृचर्य एव भूमिशयमार्होऽपि यः खट्वामारोहति स जाल्मः। रूढश्चायम्। तेन खट्वामारोहतु मा त.]वा, निषिद्धानुष्ठानपरः सर्वोऽपि खट्वारूढ इत्युच्यते। अत एवाह–नित्येति।
TBD.