Table of Contents

<<2-1-27 —- 2-1-29>>

2-1-28 कालाः

प्रथमावृत्तिः

TBD.

काशिका

द्वितीया क्तेन इति वर्तते। कालवाचिनः शब्दाः द्वितीयान्ताः क्तान्तेन सह समस्यन्ते विभाष, तत्पुरुषश्च समासो भवति। अन्त्यन्तसम्योगार्थं वचनम्। कालाः इति न स्वरूपविधिः। षण्मुहूर्ताश्चराचराः, ते कदाचितहर्गच्छन्ति कदाचित् रात्रिम्। अहरतिसृता मुहूर्ताः अहःसङ्क्रान्ताः। रात्र्यतिसृता मुहूर्ताः रात्रिसङ्क्रान्ताः। मासप्रमितश्चन्द्रमाः। मासं प्रमातुमारब्धः प्रतिपच्चन्द्रमाः इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

681 कालाः। क्तेनेत्येवेति। क्तेनेत्यनुवर्तत एवेत्यर्थः। कालवाचिप्रकृतिकद्वितीयान्ताः क्तप्रत्ययान्तप्रकृतिकसुबन्तेन वा समस्यन्त इत्यर्थः। ननु `अत्यन्तसंयोगे चे'त्युत्तरसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह– अनत्यन्तेति। मासप्रमिति इति। मासं प्रमित इति विग्रहः। प्रपूर्वकान्माधातोरादिकर्मणि क्तः कर्तरि चेति कर्तरि क्तः। तदाह–मासं परिच्छेत्तुमिति। इह प्रतिपच्चन्द्रेण मासस्य नात्यन्तसंयोग इति भावः।

तत्त्वबोधिनी

603 कालाः। बहुवचननिर्देशः स्वरूपनिरासार्थः। `कालवाचिनो द्वितीयान्ताः क्तान्तेन सह वा समस्यन्त' इति सूत्रार्थः। ननु `काला अत्यन्तसंयोगे'इत्येवास्तु क्तेनेति निवृत्तम्, नार्थो योगविभागेनेत्यत आह–अनत्यन्तेति। मासप्रमति इति। `माङ्माने'। आदिकर्मणि क्तः कर्तरि। इह प्रतिपञ्चन्द्रेण नास्त्यत्यन्तसंयोगः।

Satishji's सूत्र-सूचिः

TBD.