Table of Contents

<<2-1-21 —- 2-1-23>>

2-1-22 तत्पुरुषः

प्रथमावृत्तिः

TBD.

काशिका

तत्पुरुषः इति संज्ञा ऽधिक्रियते प्राग् बहुव्रीहेः। यानित ऊर्ध्वम् अनुक्रमिष्यामः, तत्पुरुषसंज्ञास्ते वेदितव्याः। वक्ष्यति, द्वितीय श्रितातीतपतित 2-1-24। इति। कष्टश्रितः। पूर्वाचार्यसंज्ञा चेयं महती, तदङ्गीकरणौपाधेरपि तदीयस्य परिग्रहार्थम्, उत्तरपदार्थप्रधानस् तत्पुरुषः इति। तत्पुरुषप्रदेशाः तत्पुरुषे कृति बहुलम् 3-3-14। इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

925 अधिकारोऽयं प्राग्बहुव्रीहेः..

बालमनोरमा

676 तत्पुरुषः। प्रागिति। `शेषो बहुव्रीहि'रित्यनः प्रागित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.