Table of Contents

<<2-1-22 —- 2-1-24>>

2-1-23 द्विगुश् च

प्रथमावृत्तिः

TBD.

काशिका

द्विगुश्च समासः तत्पुरुशसज्ज्ञो भवति। द्विगोस् तत्पुरुशत्वे समासान्ताः प्रयोजनम्। पञ्चराजम्। दशराजम्। द्व्यहः। त्र्यहः। पङ्चगवम्। दशगवम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

926 द्विगुरपि तत्पुरुषसंज्ञकः स्यात्..

बालमनोरमा

677 द्विगुश्च। द्विगुरपीति। `तद्धितार्थोत्तरपदसमाहारे च' इति वक्ष्यमाणसमासस्य `संख्यापूर्वो द्विगु'रिति द्विगुसंज्ञा विधास्यते। स द्विगुसमासोऽपि तत्पुरुषसंज्ञक इति यावत्। एतत्सूत्राऽभावे एकसंज्ञाधिकाराद्द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेति भावः। इदमिति। `द्विगुश्चे'त्येतदित्यर्थः। तर्हि द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्यत आह–संख्येति। `संख्यापूर्वोद्विगु'रिति द्विगुसंज्ञाविधायकं सूत्रम्। तत्र चकारः पठनीयः। ततश्च संख्यापूर्वसमासो द्विगुसंज्ञकस्तत्पुरुषसंज्ञकश्च स्यादिति लभ्यते। एवञ्च चकारेण

लघु

ना तत्पुरुषसंज्ञासमुच्चयलाभा`द्द्विगुश्चे'ति गुरुभूतं सूत्रं न कर्तव्यमित्यर्थः। ननु मास्तु द्विगोस्तत्पुरुषत्वमित्यत आह–समासान्तः प्रयोजनमिति। तदुदाह्मत्य दर्शयति - पञ्चराजमिति। पञ्चानां राज्ञां समाहार इति विग्रहे `तद्धितार्थे'ति द्विगुः। तस्य तत्पुरुषत्वाद्राजाहःसखिभ्यष्टजि'ति टच्। `स नपुंसक'मिति नपुंसकत्वम्। `अकारान्तोत्तरपदो द्विगुः स्त्रिया'मिति तु न भवति, समासान्तस्य टचः समुदायावयवत्वेन उत्तरपदावयवत्वाऽभावात्। न च `संख्यापूर्वोद्विगुश्चे'ति पाठे द्विगुतत्पुरुषसंज्ञयोः पर्यायेण प्रवृत्तिः स्यात्, अतः समुच्चयार्थं `द्विगुश्चे'ति पृथक्सूत्रमस्त्विति वाच्यम्, `सङ्ख्यापूर्व' इति, `द्विगु'रिति च योगौ विभज्य पूर्वेण सङ्ख्यापूर्वस्य तत्पुरुषसंज्ञाविधिः, द्विगुरित्यनेन द्विगुसंज्ञाविदिरित्याश्रयणे सति, चकारमन्तरेणापि पर्यायेण प्रवृत्तिसिद्ध्या चकारस्य समुच्चयार्थत्वोपपत्तेः।

तत्त्वबोधिनी

598 चकारबलेन संज्ञाद्वयसमावेशस्येति। न चैवं द्विगुतत्पुरुषयोः पर्यायता स्यादिति शङ्क्यम्। योगं विभज्य संख्यापूर्स्य तत्पुरुषसंज्ञां विधाय पश्चद्द्विगुसंज्ञाविधाने चकारपठनमन्तरेणापि पर्यायत्वसिद्धेः। नापि द्वौ अन्यौ यस्य `द्य्वन्य' इत्यत्रातिप्रसङ्गः शङ्क्यः, `तद्धितार्थोत्तरपदे'ति सूत्रमनुवर्त्त्य `तद्धितार्थेत्यत्रोक्तस्त्रिविधः सङ्ख्यापूर्व' इति व्याख्यानात्। द्विगोस्तत्पुरुषत्वे फलमाह—समासान्त इति। टजचावित्यर्थः। अचि तूदाहरणं–`तत्पुरुषत]स्याङ्गुले'रित्यचि व्द्यङ्गुलमिति बोध्यम्। पञ्चराजमिति। समाहारद्विगौ `राजहःसखिभ्यः'इति टच्। समास स्यैवायमन्तावयव इति उत्तरपदस्याऽनकारान्तत्वात् स्त्रीत्वाऽभावः। `समासार्थोत्त्रपदान्ताः समासान्ता' इति पक्षे तु अकारान्तोत्तरपदत्वेऽपि पात्रादित्वान्नेति बोध्यम्। काशिकायां तु पञ्चराजीत्युदाह्मतम्। स क्वाचित्कोऽपपाठ इति हरद्त्तः। अत्र केचित्– पात्रादित्वकल्पने मानाऽभावात्पञ्चराजीति काशिकोक्तोदाहरणमपि सम्यगेवेत्याहुः।

Satishji's सूत्र-सूचिः

TBD.