Table of Contents

<<2-1-16 —- 2-1-18>>

2-1-17 तिष्ठद्गुप्रभृतीनि च

प्रथमावृत्तिः

TBD.

काशिका

तिष्ठद्ग्वादयः समुदाया एव निपात्यन्ते। तिष्ठद्गुप्रभृतीनि शब्दरूपाणि अव्ययीभावसंज्ञानि भवन्ति। तिष्ठद्गु कालविशेषः। तिष्ठन्ति गावो यस्मिन् काले दोहनाय स तिष्ठद्गु कालः। खलेयवादीनि प्रथमानतानि विभक्त्यनतरेन्ण न एव सम्बध्यन्ते ऽन्यपदार्थे च काले वर्तन्ते। चकारो ऽवधारणार्थः। अपरः समासो न भवति, परमतिष्ठद्गु इति। तिष्ठद्गु। वहद्गु। आयतीगवम्। खलेबुसम्। खलेयवम्। लूनयवम्। लूयमानयवम्। पूतयवम्। पूयमानयवम्। संहृतयवम्। संह्रियमाणायवम्। संहृतबुसम्। संह्रियमाणाबुसम्। एते कालशब्दाः। समभूमि। समपदाति। सुषमम्। विषमम्। निष्षमम्। दुष्षमम्। अपरसमम्। आयतीसमम् ःप्राह्णम्। प्ररथम्। प्रमऋगम्। प्रदक्षिणम्। अपरदक्षिणम्। संप्रति। असंप्रति। पापसमम्। पुण्यसमम्। इच् कर्मव्यतिहारे 5-4-127 दण्डादण्डि। मुसलामुसलि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

663 तिष्ठद्गुप्रभृतीनि च। एतानीति शब्दरूपाणीत्यर्थः। तिष्ठन्ति गाव इति। फलितार्थकथनम्। तिष्ठन्त्यो गावो यस्मिन् काले स तिष्ठद्गुः इत्येव वक्तव्यम्, `सुप्सुपः' इत्यनुवृत्तेः। दोहनकाल इति। तदा गवां शयनोपवेशनयोरभावादिति भावः। आयतीगवमिति। आयत्यो गावो यस्मिन् काले इति विग्रहः। इहेति। उदाहरणद्वये इत्यर्थः। शत्रादेश इति। `तिष्ठन्त्यो गाव' इति `आयत्यो गाव' इति च प्रथमासमानाधिकरणत्वात् `लटश्शतृशानचौ' इत्यस्याऽप्राप्तौ तन्निपातनमिति भावः। पुंवद्भावेति। तिष्ठन्तीशब्दस्येव आयतीशब्दस्यापि `स्त्रियाः पुंवत्' इति पुंवत्त्वस्य प्राप्तौ तदभावो निपात्यते इति भावः। समासान्तश्चेति। आयतीगोशब्दस्य टच् समासान्तो निपात्यते, तत्पुरुष एव गोशब्दस्य टज्विधेरिति भावः। `समासान्तश्चे'ति चकारादव्ययीभावश्च निपात्यते इति ज्ञेयम्। तथा च तिष्ठद्गोशब्दस्य नपुंसकह्यस्वत्वम्। अव्ययत्वात् सुपो लुक्। औगतीगवशब्दात्तु `नाव्ययीभावात्' इत्यम्भाव इत्यादि फलति। इत्यादीति। खलेयवं खलेबुसमिति सप्तम्या अलुगिति - आदिपदग्राह्रम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.