Table of Contents

<<2-1-17 —- 2-1-19>>

2-1-18 पारे मध्ये षष्ठ्या वा

प्रथमावृत्तिः

TBD.

काशिका

षष्थीसमासे प्राप्ते तदपवादो ऽव्ययीभव आरभ्यते। वावचनात् षष्ठीसमासो ऽपि पक्षे ऽभ्यनुज्ञायते। पारंध्यशब्दौ षष्ठ्यन्तेन सह विभाषा समस्येते, अव्ययीभावश्च समासो भवति। तत्सन्नियोगेन च अनयोरेकारान्तत्वं निपात्यते। पारं गङ्गायाः पारेगङ्हम्। मध्यं गङ्गायाः मध्येगङ्गम्। षष्ठीसमासपक्षे गङ्गापारम्। गङ्गामध्यम्। महाविभाषया वाक्यविकल्पः क्रियते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

664 पारे मध्ये। पारे मध्ये #इति न सप्तम्यन्तयोग्र्रहणं, किन्तु पारमध्यशब्दयोरेवेत्याह–पारमद्यशब्दाविति। समस्येते इति। अव्ययीभावसंज्ञौ चेत्यपि बोध्यम्। ननु पारमध्यशब्दयोरकारान्तयोग्र्रहणे कथमेकारनिर्देश इत्यत आह–एदन्तत्वं चेति। ननु विभाषेत्यधिकारादेव सिद्धे `वा'ग्रहणं किमर्थमित्यत आह–पक्षे षष्ठीतत्पुरुष इति वाग्रहणाभावेऽयमव्ययीभावसमासो विशेषविहितत्वात् षष्ठीसमासं बाधेत, तदबाधार्थं वाग्रहणमिति भावः। विग्रहे अव्ययीभावसमासे सति सुब्लुकि पारशब्दस्य पूर्वनिपाते निपातनादेत्वे नपुंसकह्यस्वत्वे पारेगङ्गशब्दात्समासात्पुनः पञ्चम्युत्पत्तिः। `अव्ययादाप्' इति न लुक्, अदन्ततया `नाव्ययीभावात्' इति निषेधात्। `अपञ्चम्या' इति पर्युदासादम्भावश्च नेति भावः। गङ्गापारादिति -षष्ठीसमासपक्षे ज्ञेयम्। मद्येगङ्गादिति। पारेगङ्गादितिवद्रूपम्। गङ्गामध्यादिति -षष्ठीसमासेज्ञेयम्। `पारे मध्ये इति सप्तम्यन्ते षष्ठ\उfffदा समस्येते' इति व्याख्याने तु गङ्गायाः पारे मध्ये इति विग्रहे संमासे सति `तत्पुरुषे कृति बहुलम्' इति बहुलग्रहणात् सप्तम्योरलुकि नपुंसकह्यस्वत्वे समासात्पुनरुत्वपन्नायाः सप्तम्या अम्भावे पारेमध्यं पारेगङ्गमिति सिद्धे रेकारनिर्देशो व्यर्थः स्यात्। अतो यत्र सप्तम्यर्थो न संभवति तदर्थमेकारनिपातनमिति भाष्ये स्पष्टम्। एतत्सूचनायैव पञ्चम्यन्तोदाहरणमिति बोध्यम्। ननु यदि वाग्रहणमिह पक्षे षष्ठीसमासप्राप्त्यर्थमेव स्यात्, तर्हि गङ्गायाः पारात् गङ्गाया मध्यादिति वाक्यं न स्यादित्यत आह- महाविभाषयेति। विभाषेत्यधिकृता महाविभाषा। सर्वेषु समासविधिषु प्रायेण तस्यानुवृत्तेर्महत्त्वं बोध्यम्। नन्वव्ययीभावसमासस्य षष्ठीसमासापवादत्वेऽपि तस्य महाविभाषया वैकल्पिकत्वात्तदभावपक्षे उत्सर्गतः षष्ठीतत्पुरुषः प्रवर्तत एव। तस्यापि षष्ठीसमासस्य विभाषाधिकारस्थत्वेन वैकल्पिकत्वात्तदभावपक्षे वाक्यमपि सिध्यत्येव। तस्मादिह सूत्रे वाग्रहणं व्यर्थमेवेति चेत्, उच्यते, `यत्र उत्सर्गापवादौ महाविभाषया विकल्पितौ तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते ' इति ज्ञापनार्थमिह वाग्रहणम्। तेन पूर्वं कायस्येत्यत्र #एकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति। दक्षस्यापत्यं दाक्षिरित्यत्र अत इञा मुक्ते `तस्यापत्य'मित्यण् न भवति। किं तु वाक्यमेवेति भाष्ये स्पष्टम्।

तत्त्वबोधिनी

588 पारे मध्ये। निपात्यत इति। यत्र सप्तम्यर्थो न संभवति तदर्थमेकारान्तत्वनिपातनम्। सप्तम्यर्थसंभवे तु `तत्पुरुषे कृति बहुल'मिति बहुलग्रहणादलुकाऽपि सिद्धेः, अतोऽत्र सप्तम्यर्थाऽभावसूचनाय पञ्चम्यन्तमुदाहरति– पारेगङ्गादित्यादि। महाविभाषयेति। नन्वपवादेऽव्ययीभावे महाविभाषया विकल्पिते पक्षे तदुत्सर्गः षष्ठीतत्पुरुषः प्रवर्तते, तस्यापि विभाषाधिकारस्थत्वेन वैकल्पिकत्वात्पक्षे वाक्यमपि सिध्यतीति सूत्रे वाग्रहणं व्यर्थमेवेति चेत्। अत्राहुः–महाविभाषया एकार्थीभावस्य पाक्षिकत्वे विवक्षिते यदा एकार्थीभावस्तदा षष्ठीसमासं बाधित्वा नित्यमव्ययीभावे प्राप्ते पक्षे षष्ठीसमाससमावेशार्थमिह वाग्रहणम्। `व्यपेक्षासामथ्र्यमेके' इति पक्षे तु वृत्तावपि व्यपेक्षालक्षणमेव सामथ्र्यामिति वाक्यस्य नित्यं बाधे प्रसक्ते तया वृत्तिर्विकल्प्यते। तथा चाऽव्ययीभावे विकल्पिते पूर्वोक्तरीत्या पक्षे तत्पुरुषस्तस्यापि वैकल्पिकत्वाद्वाक्यमपि सिद्धत्येव, तथापि `यत्रोत्सर्गापवादौ महाविभाषया विकल्प्येते तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते' इति ज्ञापनायेदम्। तेन पूर्वं कायस्येत्येकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति, दक्षस्यापत्यं दाक्षिरित्यत्र अत इञा मुक्ते अण् न भवति, किंतूभयत्र वाक्यमेवेति।\त्

Satishji's सूत्र-सूचिः

TBD.