TBD.
समया समीपम्। अनुर्यस्य समीपवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति। अनुवनमशनिर्गतः। अनुः इति किम्? वनं समया। यत्समया इति किम्? वृक्षमनु विद्योतते विद्युत्। अव्ययं विभक्तिसमीप 2-1-6 इत्येव सिद्धे पुनर्वचनम् विभाषार्थम्।
TBD.
–
661 अनुर्यत्समया। लक्षणेनेत्यनुवत्र्तते। `य'दिति समयायोगे `अभितःपरितः' इति द्वितीयान्तम्। सामान्ये नपुंसकम्। तदाह–पदार्थमिति। अनुवनमिति। अत्र वनशब्दः वनसमीपदेशे लाक्षणिकः। वनसमीपस्य लक्षणत्वं वस्तुसदेव निमित्तम्। तदाह–वनस्य समीपं गत इत्यर्थ इति। वस्तुतो लक्षणीभूतस्य वनस्य समीपंगत इति यावत्। `अव्ययं विभक्ती'त्यादिना सिद्धे विभाषार्थमिदं सूत्रम्। ततश्च `वनस्यानु' इति लौकिकविग्रहवाक्यमुदाहार्यम्। नात्र कर्मप्रवचनीयसंज्ञा शङ्क्या, वस्तुसत एवात्र लक्षणत्वस्य निमित्तत्वाश्रयणात्। लक्षणत्वस्य ज्ञातस्य निमित्तत्वे तु `वनमनु' इत्येववाक्यमुदाहार्यम्।
585 अनुर्यत्,। यदिसि समयायोगे द्वितीयेति ध्वनयति-यं पदार्थमिति। यस्य पदार्थस्य समीपमित्यर्थः। लक्षणेनेत्यनुवर्तत इत्याह–लक्षणभूतेनेति। चिह्नवाचिनेत्यर्थः। `अव्यय विभक्ती' त्यनेन सिद्धे विभाषार्थं सूत्रम्। तेन पक्षे `वनस्यानु'इत्युदाहार्यमिति मनोरमायां स्थितम्। अत्र वदन्ति–वनस्येति षष्ठीह दुर्लभा, कर्मप्रवचनीययुक्ते द्वितीयाया दुर्वारत्वात्, तत्सामथ्र्यात्समया लङ्कामितिवत्समासबाधे प्रसक्ते अस्य विध्यर्थत्वात्। न चायमनुः सामीप्यमात्रद्योतको, न लक्ष्यलक्षमभावस्येति वाच्यम्। लक्षणेनेत्यवृत्तिवैयथ्र्यात्। न चैवमपि लक्षणमात्रद्योतकत्वं नास्तीति वाच्यम्। `लक्षणेत्थ'मित्यत्र मात्रपदाऽभावात्। अग्निमभि, अ\उfffद्ग्न प्रतीति पूर्वसूत्रस्थोदाहरणा[प्रत्युदाहरण]वाक्यविरोधाच्च। अतोऽत्र पक्षे `वनमनु'इत्युदाहार्यम्। `वनस्य समीपं गत' इति मूलस्थं विवरणवाक्यं तु `लक्षण भूतस्य वनस्य समीपं गत' इति व्याख्येयमिति। अन्विति किम्?। ग्रामं समया। यत्समयेति किम्?। वृक्षमनुविद्योतते विद्युत्। लक्षणेन किम्?। अनुव[च]नम्। उपकृष्णमितिवदत्र नित्यमव्ययीभावः।
TBD.