TBD.
अपत्रिगर्तं वृष्तो देवः, अप त्रिगर्तेभ्यः। अपपरिबहिरञ्चवः पञ्चम्या
अप परि बहिसञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति। अपत्रिगर्तं वृष्टो देवः, अप त्रिगर्तेभ्यः। परित्रिगर्तम्, परि त्रिगर्तेभ्यः। बहिर्ग्रामम्, वहिर्ग्रामात्। प्राग्ग्रामम्, प्राग् ग्रामात्। बहिः शब्दयोगे पञ्चमीभावस्य एतदेव ज्ञापकम्।
TBD.
–
658 अपरिबहिः। `समस्यन्ते सोऽव्ययीभाव' इति शेषः। अपविष्ण्विति। अत्र `अप' इत्यव्ययं वर्जने। विष्णुं वर्जयित्वा संसरणमित्यर्थः। अप विष्णोरिति- लौकिकविग्रहवाक्यम्, समासस्य वैकल्पिकत्वेनास्वपदविग्रहनियमाऽभावात्। `अपपरी वर्जने' इति अपेत्यव्ययस्य कर्मप्रवचनीयत्वात्तद्योगे `पञ्चम्यपाङ्परिभि'रिति पञ्चमी। तदन्तेन `अपे'त्यस्याव्ययीभावसमासः। सुब्लुक्। अपेत्यव्ययस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः। समासात्सुबुत्पत्तिः। `अव्ययादाप्सुपः' इति लुक्। एवं यथायथमग्रेऽपि ज्ञेयम्। परिविष्ण्विति। अत्रापि परिर्वर्जने। पञ्चम्यादि पूर्ववत्। बहिर्वनं बहिर्वनादिति। अस्मादेव ज्ञापकाद्बहिर्योगे पञ्चमी। इतरत् पूर्ववत्। ?दन्तत्वादम्भावः। प्राग्वनं प्राग्वनादिति। अञ्चूत्तरपदयोगे पञ्चमी।
582 अपपरिबहिः। अपपरियोगे `पञ्चम्यपाङ्परिभि'रिति पञ्चमीविहिता, अञ्चूत्तरपदयोगेऽपि `अन्यारा' दित्यादिना विहितैव। तेनाऽत्र `पञ्चम्या'इति ग्रहणं `बहिर्योगे पञ्चमी भवति' इति ज्ञापनार्थम्। `ज्ञापकसिद्धं न सर्वत्रे'ति `करस्य करभो बहि'रित्यपि सिद्धम्।
TBD.