Table of Contents

<<2-1-12 —- 2-1-14>>

2-1-13 आङ् मर्यादाऽभिविध्योः

प्रथमावृत्तिः

TBD.

काशिका

आङित्येतन् मर्यादायाम् अभिविधौ च वर्तमानम् पज्चम्यन्तेन सह विभाषा संस्यते, अव्ययीभावश्च समासो भवति। आपाटलिपुत्रं वृष्टो देवः, आ पाटलिपुत्रात्। अभिविधौ आकुमारं यशः पाणिनेः, आ कुमारेभ्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

659 आङ्मर्यादाभिविध्योः। एतयोरिति। मर्यादाभिविध्योर्विद्यमानादित्यर्थः। मर्यादायामुदाहरति-आमुक्तीति। मुक्तेः प्रागित्यर्थः। अमिविधावुदाहरति-आबलमिति। बालानारभ्येत्यर्थः। `आङ्मर्यादावचने' इत्युभयत्रापि कर्मप्रवचनीयत्वात् `पञ्चम्यपाङ्परिभि'रिति पञ्चमी।

तत्त्वबोधिनी

583 आबालमिति। `आ परमणोरा च भूगोलक' मिति किरणावलीप्रयोगस्तु प्रामादिकः, समासमध्ये च शब्द प्रयोगाऽसंभवात्। `आ च भूगोलकात्'इति पास्तूचितः।

Satishji's सूत्र-सूचिः

TBD.