TBD.
विभाषा इत्ययम् अधिकारो वेदितव्यः। यदित ऊर्ध्वम् अनुक्रमिष्यामः, तद् विभाषा भवति। वक्ष्यति
TBD.
–
657 विभाषा। अधिकारोऽयमिति। ततश्चोत्तरत्र समासविधिष्वेतदनुवर्तते इति लभ्यते। ननु `प्राक्कडारात्समासः' इत्यत ऊध्र्वं `सहसुपे'त्यतः प्रागेव कुतो विभाषाधिकारो न कृत इत्यत आह–एतत्सामथ्र्यादिति। मध्ये विभाषाधिकारपाठसामथ्र्यादेवेतः प्राचीनानां नित्यसमासत्वं गम्यत इत्यर्थः। यद्यपीतः प्राचीनानां विकल्पे प्रमाणाऽभावादेव नित्यत्वं सिद्धं, तथापि तस्यैव लिङ्गेन दृढीकरणमिति। बोध्यम्। नन्वेवं सति `सुप्सुपे'त्यपि नित्यसमासः स्यात्, ततश्च पूर्वं भूत इति लौकिकविग्रहवाक्यमनुपपन्नं स्यात्। `सुप्सुपे'ति विषये विस्पष्टं पटुर्विस्पष्टपटुरिति विग्रहप्रदर्शनपरम् `आकडारात्' इति सूत्रस्थभाष्यमपि विरुध्येतेत्यत आह-न नित्यसमास इति। कुत इतयत आह–अव्ययमित्यादीति। `आकडारा'दित्येव सिद्धे `प्राक्कडारा'दिति प्राग्ग्रहणं समाससंज्ञायां अव्ययीभावादिसंज्ञासमावेशार्थम्। अन्यथा एकसंज्ञाधिकारात्पर्यायः स्यादिति `आकडारा'दिति सूत्रे भाष्ये स्थितम्। तत्र `अव्ययं विभक्ती'त्याद्यव्ययीभावादिविधिषु`सुप्सुपे'ति समासमनूद्य नाव्ययीभावादिसंज्ञा विधेयाः। `उपपदमतिङ्' `कर्तृकरणे कृता बहुलम्' `आख्यातमाख्यातेन क्रियासातत्ये' इत्यादौ सुबन्तस्य सुबन्तेन समासस्य उद्देश्यस्याऽप्रसिद्धेः। अतस्तेषु समासविधानस्यावश्यकत्वादर्थाधिकारानुरोधात्सर्वत्र समास इत्यनुवृत्तं विधेयसमर्पकमित्यास्थेयम्। तत्र `सुप्सुपे'त्येव सिद्धे `अव्ययं विभक्ती'त्याद्यव्ययीबावादिविधिषु समाससंज्ञाविधानं व्यर्थं सत्ततः प्राचीनविधेर्वैकल्पिकत्वं ज्ञापयति। न चाव्ययीभावादिविधिषु समासविध्यभावेऽव्ययादीनां समासशास्त्रे प्रथमानिर्दिष्टत्वाऽभावेन उपसर्जनत्वाऽभावात्पूर्वनिपातनियमो न स्यात्, तदर्थमव्ययीभावादिविदिषु समासविधानं चरितार्थमिति वाच्यं, `प्रथमानिर्दिष्टम्' इति सूत्रे `समासे' इत्यस्य समासत्वव्याफ्याऽव्ययीभावादिविधायके शास्त्रे इत्यर्थाभ्युपगमेनाऽव्ययादीनामुपसर्जनत्वसिद्धेर्वक्तुं शक्यत्वात्। तस्मादव्ययी भावादिविधिषु समासविधानं `सुप्सुपे'ति समासस्य वैकल्पिकत्वं ज्ञापयतीति स्थितम् . `आकडारा'दिति सूत्रे `सुप्सुपे'ति समासविषये विस्पष्टं पटुविस्पष्टपटुरिति विग्रहप्रदर्शनपरभाष्यं चेह लिङ्गमित्यलं बहुना। एवंच `इवेन समासः' इत्यादि वैकल्पिकमिति सिद्धम्। यद्यपि नित्यसमासाधिकारे `कुगती'त्यत्रापि `इवेने'ति वार्तिकं पठितं तथापि `सुप्सुपे'त्यत्र पठितमेव तत्रापि स्मार्यत इति कैयटः।
581 विभाषेति। इतः प्राचीनानां समासानां हि टिघुभादिसंज्ञानामिव वाग्रहणाऽभावान्नित्यत्वं न्यायत एव सिद्धं, तच्च लिङ्गेनापि द्रढयति-एतदिति। नन्वेवं `सुप्सुपा' इत्यपि नित्यं स्यात्, इष्टापत्तौ तु `पूर्वं भूतो भूतपूर्वः। सुप्सुपेति समासः' इति वृत्तिग्रन्थो विरुध्येत। तथा शाकलसूत्रे `सिन्नित्यसमासयोः शाकलप्रतिषेधः' इत्यत्र `नित्य ग्रहणेन नार्थः, इदमपि सिद्धं भवति– वाप्याम\उfffदाओ वाप्य\उfffदाः' इति भाष्यं कैयटो व्याख्यात्–`वाप्य\उfffदा इति सुप्सुपे'ति समाससः। `संज्ञायाम्' इति सप्तमीसमासस्य तु नित्यत्वात्सिद्धः प्रतिषेधः'इति। सोऽपि ग्रन्थो विरुध्येतेत्याशङ्कायामाह सुप्सुपेति त्विति। नन्वत्र किं प्रमाणमित्यत आह–अव्ययमित्यादीति। सुप्सपेत्यनेनैव सिद्धे समासे `अव्यय'मित्यादिसूत्रैः पुनः समासविधानं प्काचीनस्य क्वाचित्कातां ज्ञापयतीत्यर्थः। एवं च इवेन समासस्यापि क्वाचित्कत्वात् `उद्वाहुरिव वामनः'इत्यादि सिद्धम्। `इवेने'तिवार्तिकं तु यद्यपि `कुगती'त्यत्र पठ\उfffद्ते तथापि `सुप्सुपे'त्यत्रत्यमेव नित्याऽधिकारे स्मारितमिति कैयटः। एवं स्थिते `उद्बाहुरिव वामनः'इत्यादिलोकप्रयोदसिद्धये इवेन समासस्य छन्दोविषयकत्वं कल्पयन्तः प्रत्युक्ताः। छन्दस्यपि तत्समासस्य नित्यत्वानभ्युपगमात्। `जीमूतस्येवे'त्यत्र हि बह्वृचैः समासाभ्युपगमेऽपि तैत्तिरयैव्र्यस्तस्यैव पाठात्। एतच्च मनोरमायां स्थितम्।
TBD.