Table of Contents

<<1-4-98 —- 1-4-100>>

1-4-99 लः परस्मैपदम्

प्रथमावृत्तिः

TBD.

काशिका

लः इति षष्ठी आदेशापेक्षा। लाऽदेशाः परस्मैपदसंज्ञा भवन्ति। तिप्, तस्, झि । सिप्, थस्, थ। मिप्, वस्, मस्। शतृक्वसू च परस्मैपदप्रदेशाः सिचि वृद्धिः परस्मैपदेषु 7-2-1 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

378 लादेशाः परस्मैपद संज्ञाः स्युः..

बालमनोरमा

6 लः पर। `ल' इति स्थानषष्ठी। `आदेश' इत्यध्याहार्यम्। तदाह– लादेशा इति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

279) लः परस्मैपदम् 1-4-99

वृत्तिः लादेशाः परस्‍मैपदसञ्ज्ञाः स्‍युः। The substitutes for the लकारः get the परस्‍मैपद-सञ्ज्ञा।