Table of Contents

<<1-4-94 —- 1-4-96>>

1-4-95 अतिरतिक्रमणे च

प्रथमावृत्तिः

TBD.

काशिका

अतिशब्दः अतिक्रमणे, चकारात् पूजयं च कर्मप्रवचनीयसंज्ञो भवति। निष्पन्ने ऽपि वस्तुनि क्रियाप्रवृत्तिः अतिक्रमणम्। अति सिक्तम् एव भवता। अति स्तुतम् एव भवता। पूजायम् अति सिक्तं भवता। अति स्तुतम् एव भवता। शोभनं कृतम् इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

548 अतिरतिक्रमणे च। चकारात्पूजायामिति समुच्चीयत #इत्याह–पूजायां चेति। अतिक्रमणम्-उचितादाधिक्यम्। अति देवान् कृष्ण इति। प्रपञ्चसंरक्षणविषये देवेभ्योऽधिकः कृष्ण इत्यर्थः। देवानां पूज्य इति वा। आद्यऽर्थे `कुगतिप्रादयः' इति समासो न, `स्वती पूजायामि'ति नियमात्। द्वितीये त्वनभिधानान्नेत्याहुः।

तत्त्वबोधिनी

491 अतिरतिक्रमेण च। चकारेण `पूजाया'मित्यनुकृष्यत इत्याह—पूजायां चेति। अतिक्रमणम्–उचितादधिकस्यानुष्ठानम्। अर्थद्वयेऽप्येकमेवोदाहरिति—अति देवान् कृष्ण इति। अन्ये तूदाहरन्ति अतिसिक्तम्, अतिस्तुतमिति। बहुतरं समीचीनं वा सिक्तं स्तुतं चेत्यर्थः। बहुतरार्थे अतिक्रमाणं, समीचीने पूजेति विवेकः।

Satishji's सूत्र-सूचिः

TBD.