Table of Contents

<<1-4-94 —- 1-4-96>>

1-4-95 अतिरतिक्रमणे च

प्रथमावृत्तिः

TBD.

काशिका

अतिशब्दः अतिक्रमणे, चकारात् पूजयं च कर्मप्रवचनीयसंज्ञो भवति। निष्पन्ने ऽपि वस्तुनि क्रियाप्रवृत्तिः अतिक्रमणम्। अति सिक्तम् एव भवता। अति स्तुतम् एव भवता। पूजायम् अति सिक्तं भवता। अति स्तुतम् एव भवता। शोभनं कृतम् इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

548 अतिरतिक्रमणे च। चकारात्पूजायामिति समुच्चीयत #इत्याह–पूजायां चेति। अतिक्रमणम्-उचितादाधिक्यम्। अति देवान् कृष्ण इति। प्रपञ्चसंरक्षणविषये देवेभ्योऽधिकः कृष्ण इत्यर्थः। देवानां पूज्य इति वा। आद्यऽर्थे `कुगतिप्रादयः' इति समासो न, `स्वती पूजायामि'ति नियमात्। द्वितीये त्वनभिधानान्नेत्याहुः।

तत्त्वबोधिनी

491 अतिरतिक्रमेण च। चकारेण `पूजाया'मित्यनुकृष्यत इत्याह—पूजायां चेति। अतिक्रमणम्–उचितादधिकस्यानुष्ठानम्। अर्थद्वयेऽप्येकमेवोदाहरिति—अति देवान् कृष्ण इति। अन्ये तूदाहरन्ति अतिसिक्तम्, अतिस्तुतमिति। बहुतरं समीचीनं वा सिक्तं स्तुतं चेत्यर्थः। बहुतरार्थे अतिक्रमाणं, समीचीने पूजेति विवेकः।

Satishji's सूत्र-सूचिः

TBD.