TBD.
अधिपरी शब्दौ अनर्थकौ अनर्थान्तरवाचिनौ कर्मप्रवचनीयसंज्ञौ भवतः। कुतो ऽध्यागच्छति। कुतः पर्यागच्छति। गत्युपसर्गसंज्ञावाधनार्था कर्मप्रवचनीयसंज्ञा विधीयते।
TBD.
–
546 अधिपरी। उक्तसंज्ञो स्त इति। कर्मप्रवचनीयसंज्ञकावित्यर्थः। कुतोऽध्यागच्छति, कुतः पर्यागच्छतीति। अत्र `कुत' इत्यपादानपञ्चम्यास्तसिल्। कस्मात् प्रदेशादागच्छतीत्यर्थः। नन्वत्र अधिपर्योरनर्थकतया सम्बन्धस्य तद्द्योत्यत्वाऽभावेन द्योत्यसम्बन्धप्रतियोगित्वरूपकर्मप्रवचनीययुक्तत्वस्याऽभावान्न द्वितीयाप्रसक्तिरित्यत आह–गतिसंज्ञाबाधादिति। अत्र `गतिर्गतौ' इत्यत्र पदादित्यधिकारात् पदात्परत्वसम्पत्तये `कुत' इत्युपात्तमिति भावः। अत्र प्रभवति पराभवति अनुभवतीत्यादौ प्रादेरिवाऽर्थान्तरद्योतकत्वाऽभावेऽपि धात्वर्थद्योतकत्वमस्त्येव। अर्थान्तरद्योतकत्वाऽभावेनाऽनर्थकत्वव्यवहारः। उक्तं च भाष्ये–`अनर्थान्तरवाचिनौ धातुनोक्तक्रियामेवाहतुः' इति। एवंच क्रियायोगाऽभावाद्गतित्वस्यापि न प्रसक्तिरिति शङ्का निरस्ता।
490 कृतोऽध्यागच्छतीति। इह–प्रयती, पराभवति, वृक्षं प्रति विद्योतते इत्यत्र प्रादेर्विशेषद्योतकत्ववदधिपर्योरिह विशेषद्योतकत्वाऽभावादानार्थक्यं, धात्वर्थमात्रद्योतकत्वेन त्वर्थताऽस्त्येवेति बोध्यम्।`गतिर्गतौ'इत्यत्र पदादित्यधिक्रियत इति पदात्परत्वसंपत्तये `कुत'इत्युक्तम्।
TBD.