Table of Contents

<<1-4-91 —- 1-4-93>>

1-4-92 प्रतिः प्रतिनिधिप्रतिदानयोः

प्रथमावृत्तिः

TBD.

काशिका

मुख्यसदृशः प्रतिनिधिः। दत्तस्य प्रतिनिर्यातनं प्रतिदानम्। प्रतिनिधिविषये प्रतिदानविषये च प्रतिः कर्मप्रवचनीयसंज्ञो भवति। अभिमन्युरर्जुनतः प्रति। माषानस्मै तिलेभ्यः प्रति यच्छति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

541 वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात्स्ये सनि च..

बालमनोरमा

592 प्रतिनिधि। अत्रेति सूत्रोक्तविषये इत्यर्थः। सूत्रे यस्मादिति षष्ठ\उfffद्र्थे पञ्चमी, अस्मादेव निर्देशात्। `कृष्णस्य प्रतिनिधिः' इति तु `ज्ञापकसिद्धं न सर्वत्रे'ति समाधेयम्। तथाच यत्सम्बन्धिनी प्रतिनिधिप्रतिदाने, तस्मात् कर्मप्रवचनीययुक्तात्पञ्चमित्यर्थः फलति। प्रद्युम्नः कृष्णात्प्रतीति। युद्धादौ प्रद्युम्नः कृष्णनिरूपितसादृश्यवानित्यर्थः। पञ्चम्यर्थः सादृश्यम्। प्रतिस्तु तद्द्योतकः। तिलेभ्य इति। ऋणत्वेन गृहीतान् तिलान् स्वरूपेण मूल्याद्यात्मना वा प्रत्यर्पयतीत्यर्थः। कर्मणि पञ्चमी।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.