Table of Contents

<<1-4-90 —- 1-4-92>>

1-4-91 अभिरभागे

प्रथमावृत्तिः

TBD.

काशिका

लक्षनाऽदिषु एव भागवर्जितेषु अभिः कर्मप्रवचनीयसञ्ञो भवति। वृक्षम् अभि विद्योतते विद्युत्। साधुर् देवदत्तो मातरम् अभि। वृक्षं वृक्षम् अभि सिञ्चति। अभागे इति किम्? भागः स्वीक्रियमाणो ऽंशः। यदत्र मम अभिष्यत् तद् दीयताम्। यदत्र मम भवति तद् दीयताम् इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

545 अभिरभागे। लक्षणादाविति। आदिना इत्थम्भूताख्यानवीप्सयोः सङ्ग्रहः। लक्षणे उदाहरति–हरिमभि वर्तत इति। जयः क्वेति प्रश्ने इदमुत्तरम्। लक्ष्यभावोऽभिद्योत्यो द्वितीयार्थः। हरिलक्ष्यो जय इत्यर्थः। भक्तो हरिमभीति। इत्थम्भूताख्याने उदाहरणमिदम्। विषयतासंबन्धोऽभिद्योत्यो द्वितीयार्थः। हरिविषयकभक्तिमानित्यर्थः। वीप्सायामुदाहरति-देवं देवमभि सिञ्चतीति। कार्त्स्न्यसंबन्धात्मिका व्याप्तिर्द्वितीयार्थः, अभिद्योत्यश्च। कृत्स्नं देवमभि सिञ्चतीत्यर्थः। षत्वाऽभावादिपूर्ववत्। यदत्रेति। बहूनां द्रव्यं तण्डुलादि यत्र संसृष्टं तत्रेदं वाक्यम्। स्वस्वाभिभावः षष्ठ\उfffद्र्थः। अभिस्तद्द्योतकः। अत्र संसृष्टद्रव्ये यद्वस्तु मम स्वभूतं स्यात्तन्मह्रं दीयतामित्यर्थः। स्यादित्यस्तेर्लिङि रूपम्। अत्र मम भाग इत्यर्थतः पर्यवसानादभाग इति कर्मप्रवचनीयत्वपर्युदासादुपसर्गत्वस्य निर्बाधत्वात् `उपसर्गप्रादुभ्र्यामस्तिर्यच्परः' इति षत्वम्।

तत्त्वबोधिनी

489 ममाऽभिष्यादिति। मम भागः स्यादित्यर्थः। प्राञ्चस्तु—मामभिष्यादिति प्रत्युदाहरन्ति, तत्र प्राप्नुयादित्यर्थः। उपसर्गवशेनाऽस्तेः सकर्मकत्वान्मामिति द्वितीया। अत्र च मम भाग इत्यर्थतः पर्यवसानात् `अभागे'इति कर्मप्रवचनीयत्वे निषिद्धे `उपसर्ग प्रादुभ्र्या'मिति षत्वम्।

Satishji's सूत्र-सूचिः

TBD.