Table of Contents

<<1-4-87 —- 1-4-89>>

1-4-88 अपपरी वर्जने

प्रथमावृत्तिः

TBD.

काशिका

अपपरी शब्दौ वर्जने द्योत्ये कर्मप्रवचनीयसंज्ञौ भवतः। प्रकृतेन सम्बन्धिना कस्यचिदनभिसम्बन्धः वर्जनम्। अप त्रिगर्तेभ्यो वृष्टो देवः। परि परि त्रिगर्तेभ्यो वृष्टो देवः। वर्जने इति किम्? ओदनं परिषिञ्चति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

588 अपपरी वर्जने। कर्मप्रवचनीयौ स्त इति। `कर्मप्रवचनीयाः' इत्यधिकृतस्य द्विवचनेन विपरिणाम इति भावः। वर्जने किम् ?। परिषिञ्चति। सर्वतः सिञ्चतीत्यर्थः। अत्रोपसर्गत्वात् `उपसर्गात्सुनोती'ति षत्वम्।

तत्त्वबोधिनी

528 अपपरी। वर्जने किम्?। परिषिञ्चति। सर्वत इत्यर्थः। अत्रोपसर्गत्वात्षत्वम्। वचनग्रहणादिति। विना तेनेति मर्याद, सह तेनेत्यभिविधिरित्यत्र य उपात्तो विशेषो विशेषणांशरूपः सोऽत्र न गृह्रते, वचनग्रहणसामथ्र्यात्, किंत अवधिमात्रं विवक्ष्यते इत्यर्थद्वयसङ्ग्रहः। यद्वा मर्यादाशब्दो यस्मिन्नुच्यते तन्मर्यादा वचनं, तद्धि `आङ्भार्यादाभिविध्योः' इति सूत्रं, तत्र य आङ् दृष्टः स उक्तसंज्ञ इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.