TBD.
आङित्येषा शब्दो मर्यादावचने कर्मप्रवचनीयसंज्ञो भवति। अवधिर्मर्यादा। वचनग्रहणादभिविधिरपि गृह्यते। आ पाटलिपुत्राद् वृष्टो देवः। आ कुमारं यशः पाणिनेः। आ सांकाश्यात्। आ मथुरायाः। मर्यादावचने इति किम्? ईषदर्थे क्रियायोगे च मा भूत्।
TBD.
–
589 आङ्मर्यादावचने। उक्तसंज्ञ इति। कर्मप्रवचनीयसंज्ञक इत्यर्थः। ननु `आङ्मर्यादायामि'त्येव सिद्धे वचनग्रहणं व्यर्थमित्यत आह–वचनग्रहणादिति। तेन विनेति मर्यादा। तेन सहेत्यभिविधिः। मर्यादाशब्दो यत्रोच्यते तन्मर्यादावचनम्=`आङ्मर्यादाभिविध्योः' इति सूत्रम्। तत्र य आङ् दृष्टः स कर्मप्रवचनीयसंज्ञकः स्यादित्यर्थः। तथाच मर्यादिभिविध्योराङ् कर्मप्रवचनीय इति फलतीति भावः।
–
TBD.