Table of Contents

<<1-4-86 —- 1-4-88>>

1-4-87 उपो ऽधिके च

प्रथमावृत्तिः

TBD.

काशिका

उपशब्दः अधिके हीने च द्योत्ये कर्मप्रवचनीयसंज्ञो भवति। उप खार्यं द्रोणः। उप निष्के कार्षापणम्। हीने उप शाकटायनं वैयाकरणाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

543 उपोऽधिके च। चकारात् `हीने' इति समुच्चीयते। तदाह-अधिके हीने चेति। आधिक्ये निकर्षे चेत्यर्थः। प्राक्संज्ञमिति। प्रागुक्तकर्मप्रवचनीयसंज्ञकमित्यर्थः। अधिके संज्ञाविधानं न द्वितीयार्थमित्याह-अधिके सप्तमी वक्ष्यत इति `यस्मादधिक'मित्यनेन कर्मप्रवचनीयसंज्ञाकार्यं सप्तमी वक्ष्यते इत्यर्थः। हीने इति। `उदाहरणं वक्ष्यते' इति शेषः। उप हरिं सुरा इति। हरेर्हीना इत्यर्थः।

तत्त्वबोधिनी

487 उपहरिमिति। पूर्ववदुत्कष्टादेव द्वितीया।

Satishji's सूत्र-सूचिः

TBD.