Table of Contents

<<1-4-79 —- 1-4-81>>

1-4-80 ते प्राग् धातोः

प्रथमावृत्तिः

TBD.

काशिका

ते गत्युपसर्गसंज्ञका धातोः प्राक् प्रयोक्तव्याः। तथा चैवोदाहृताः। तेग्रहणम् उपसर्गार्थम्। गतयो ह्यनन्तराः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

421 ते गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्याः..

बालमनोरमा

77 ते प्राग्धातोः। `ते' इत्यस्य विवरणं – गत्युपसर्गसंज्ञा इति। `उपसर्गाः क्रियायोगे' `गतिश्चे'ति प्रकृतत्वादिति भावः। प्रागेवेति। न परतो, नापि व्यवहिता इत्यर्थ-। इह `धातोः प्रागेव प्रयुज्यमाना गत्युपसर्गाः स्यु'रिति संज्ञानियमपक्षोऽपि भाष्ये स्थितः।

तत्त्वबोधिनी

59 न परतः, नापि व्यवहिता इत्यर्थः। अत एव `छन्दसि परेऽपि', `व्यवहिताश्चे'ति सूत्रितम्।

Satishji's सूत्र-सूचिः

306) ते प्राग्धातोः 1-4-80

वृत्तिः ते गत्‍युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्‍याः । The particles having गति-सञ्ज्ञा or उपसर्ग-सञ्ज्ञा are placed before the धातुः, i.e. used as prefixes.