Table of Contents

<<1-4-78 —- 1-4-80>>

1-4-79 जीविकाउपनिषदावौपम्ये

प्रथमावृत्तिः

TBD.

काशिका

कृञि इति वर्तते। जीविका उपनिषदित्येतौ शब्दौ औपम्ये विषहे कृञि गतिसंज्ञौ भवतः। जीविकाकृत्य। उपनिषत्कृत्य। औपम्ये इति किम्? जीविकाम् कृत्वा गतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

770 जीविकोपनि। उपमैव ओपम्यं, तस्मिन्विषये जीविकाशब्द उपनिषच्छब्दश्च कृञा योगे गतिसंज्ञौ स्तः। जीविकामिवेति। अशनपानादिजीवनोपायो जीविका। तामिव अवश्यं कृत्वेत्यर्थः। जीविकाकृत्येति। गतिसमासे क्त्वो ल्यप्। उपनिषदमिव कृत्वेति। उपनिषद्वेदान्तभागः, तामिव अवश्यं कृत्वेत्यर्थः। जीविका कृत्येति। गतिसमासे क्त्वो ल्यप्। उपनिषदमिव कृत्वेति। उपनिषद्वेदान्तभागः, तामिव रहसि ग्राह्रत्वेन कृत्वेत्यर्थः। उपनिषत्कृत्येति। गतिसमासे क्त्वो ल्यप्। उभयत्रापि सुब्लुक्। तदेवं `कुगतिप्रादयः' इत्यत्रत्यगतिसमासाः प्रपञ्चिताः। ननु गतिग्रहणेनैव सिद्धे प्रादिग्रहणं व्यर्थमित्यत आह–प्रादिग्रहणमगत्यर्थमिति। सुपुरुष इति। अत्र क्रियायोगाऽभावादगतित्वेऽपि समासः। सोः पूजार्थकत्वेऽपि धातुवाच्यक्रियायोगाऽभावान्न गतित्वम्। भाष्ये तु `कुगतिप्रादयः' इति सूत्रमपनीय तत्स्थाने `क्वाङ्स्वतिदुर्गतयः समस्यन्त इति वक्तव्य'मित्युक्त्वा`कुब्राआहृणः' `आकडारः', `सुब्राआहृणः',`अतिब्राआहृणः, `दुब्र्राआहृणः', `ऊरीकृत्ये'त्युदाह्मतम्। `स्वती पूजायां', `दुर्निन्दायाम्', `आङीषदर्थे', `कुः पापार्थे' इति सौनागव्याकरणवचनमित#इ भाष्ये स्पष्टम्। अत्र वार्तिकानीति। `प्रादयो गताद्यर्थे समस्यन्ते इति वक्तव्य'मिति वार्तिकं पठित्वा तत्र व्यवस्तापकानि पञ्च वार्तिकानि सौनागव्याकरणसिद्धानि भाष्ये यानि पठितानि तानि प्रदश्र्यन्त इत्यर्थः। प्रादय इति। गताद्यर्थे विद्यमानाः प्रादयः समस्यन्त इत्यर्थः। प्रगत आचार्य इति। प्रेत्यस्य विवरणं गत इति, `गत आचार्य' इत्येव अस्वपदविग्रहः, नित्यसमासत्वात्। अभिगतो मुखम् अभिमुखः, प्रतिगतोऽक्षं प्रत्यक्ष इत्यादि। \र्\नत्यादय इति। क्रान्ताद्यर्थे अत्यादयः समस्यन्त इत्यर्थः। अति क्रान्तो मालामिति। अतिशब्दः क्रान्ते वत्र्तते। क्रान्तो मालामित्यस्वपदविग्रहः। तत्र क्रमुधातोरतिक्रमणमर्थ। अतिमाल इति। `एकविभक्ति चे'ति मालाशब्दस्य उपसर्जनत्वात् `गोस्त्रि योः' इति ह्यस्वः।\र्\नवादय इति। क्रुष्टाद्यर्थे अवादयः समस्यन्त इत्यर्थः। अवकोकिल इति। कोकिलया आहूत इत्यर्थः। इत्यर्थः। अध्ययनाय=अध्ययनार्थम्। तेन श्रान्त इत्यर्थः। परिरत्र ग्लाने वर्तते।

अतिमालवद्ध्रस्वः। निरित्यव्ययं निर्गमने वर्तते। इति। वार्तिकमेतत्। वृक्षं प्रतीति। `लक्षणेत्थ'मिति कर्मप्रवचनीयत्वान्न प्रादिसमासः। इदं वार्तिकं भाष्ये प्रत्याख्यातम्।

तत्त्वबोधिनी

679 सुपुरुष इति। क्रियायोगाऽभावाद्गतित्वाऽभावः। अव्यवस्थया समासप्रसक्तौ व्यवस्थार्थं वचनानि पठ\उfffद्न्ते–प्रादय इति। आदिशब्द उभयत्र प्रकारे। तेन दुराचारः पुरुषो दुष्पुरुष इत्यादि सिद्धम्। प्रगत आचार्य इति। अनेन गतार्थे वृत्तिमस्वपदविग्रहेण नित्यसमासतां च दर्शयति। एवं प्रगतः पितामहः प्रपितामहः। प्रमातामह इत्यादि। \र्\नत्यादयः क्रान्ताद्यर्थे द्वितीयया। अत्यादय इति। आदिपदादभिगता मुखमभिमुखः। उद्गतो वेलामुद्वेलः। प्रतिगतोऽक्षं प्रत्यक्ष इत्यादि सिद्धम्। अतिमाल इति। `गोस्त्रियो'रिति ह्यस्वः।\र्\नवादयः क्रुष्टाद्यर्थे तृतीयया। अवादय इति। आदिपदात्परिणद्धो वीरुधा परि वीरुत्। संनद्धो वर्मणा संवर्मेति। आदिपदादुद्युक्तः सङ्ग्रामाय–उत्सङ्ग्रामः। अध्ययनायेति। तादर्थ्ये चतुर्थी। गुरुकुलवासादिना परिग्लानोऽध्ययनार्थमित्यर्थः। पञ्चम्या। निरादय इति। आदिपदादुत्क्रान्तः कुलादुत्कुलः। निर्गतमङ्गुलिभ्यो निरङ्गुलम्। प्रतिषेध इति। `कुगतिप्रादयः'इति प्रसक्तसमासस्य वक्तव्यः प्रतिषेधः, स च `सुराजा, अतिसखे'ति भाष्यादिप्रयागात्स्वतिभिन्ननामेव कर्मप्रवचनीयानामित्यर्थः। `लक्षणेत्थ भूते'ति कर्मप्रवचनीयत्वविधिसामथ्र्यादिह समासो नेति चेत्, तर्हि अपि स्तुततमित्युदाहार्यम्। `अपि स्तुयाद्विष्णु'मित्यादौ `अपिः पदार्थसंभावने त्यस्य साबकाशत्वात्स्वरे विशेषसत्त्वाच्चत्याहुः।

Satishji's सूत्र-सूचिः

TBD.