Table of Contents

<<1-4-77 —- 1-4-79>>

1-4-78 प्राध्वं वन्धने

प्रथमावृत्तिः

TBD.

काशिका

कृञि इति वर्तते। प्राध्वम् इति मकारान्तम् अव्ययमानुकूल्ये वर्तते। तदानुकूल्यं वन्धनहेतुकं यदा भवति तदा प्राध्वंशब्दः कृञि नित्यं गतिसंज्ञो भवति। प्राध्वंक्र्त्य। बन्ध्ने इति किम्? प्राध्वं कृत्वा शकटं गतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

769 प्राध्वं बन्धने। प्राध्वमिति न द्वितीयान्तमित्याह–प्राध्वमित्यव्ययमिति। बन्धने गम्ये प्राध्वमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः। प्राध्वङ्कृत्येति। गतिसमासे क्त्वे ल्यप्। अत्र प्राध्वमिति मान्तमव्ययं बन्धनेन आनुकूल्ये वर्तते। तदाह–बन्धनेनेति। बन्धनग्रहणस्य प्रयोजनमाह–प्रार्थनादिनेति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.