Table of Contents

<<1-4-69 —- 1-4-71>>

1-4-70 अदो ऽनुपदेशे

प्रथमावृत्तिः

TBD.

काशिका

अदःशब्दस्त्यदादिषु पठ्यते, सो ऽनुपदेशे गतिसंज्ञो भवति। उपदेशः परार्थः प्रयोगः। स्वयम् एव तु यदा बुद्ध्या पराम् ऋशति तदा न अस्त्युपदेशः इति सो ऽस्य विशयः। अदःकृत्य। अदःकृतम्। यददःकरोति। अनुपदेशे इति किम्? अदः कृत्वा काण्डं गतः इति परस्य कथयति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

761 अदोऽनुपदेशे। अदश्शब्दोऽनुपदेशे गतिसंज्ञः स्यात्। अदः कृतमिति। गतिसमासे क्त्वो ल्यप्। अमुं यज्ञं कृत्वेत्यर्थे तु सुब्लुक् च। अदः कृतमिति। `गतिरनन्तरः' इति स्वरः फलम्। यदा स्वयमेव पर्यालोचयति तदेदमुदाहरणम्। परं प्रतीति। अदऋ कृत्वा अदः कुर्वित्यादावित्यर्थः।

तत्त्वबोधिनी

671 अदःकृतमिति। `गतिरनन्तरः'इति पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वम्। प्रत्युदाहरणमिति। अदः कृत्वा अदः कुर्वित्यादीत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.